________________
( १२६ )
'कुर्वतां सभ्यानां मेघस्य रसाधिकतया विजयो यस्मिन् - ईदृशं सारस्यं रसेन -साहित्यं उत्पश्यतां विमृश्यताम् ॥ ८५ ॥
नित्यं कौमुदमुन्नयन्नयनयोरानंदनः श्रीगुरु ---
श्चन्द्रः प्राच्यकुलाचले समुदितस्तज्ज्योतिषाज्यायसा ख्याति प्राप्तसमुद्रबोधि लहरी मेघोदय श्रीकरी
तस्यां दर्शनमस्तु मौक्तिफलः प्राप्तेः सतांसम्पदे ॥ १ ॥ इतिश्री हस्तसञ्जीवनव्याख्यायां सामुद्रिकलहर्या महोपाध्याय श्री मेघविजयगणिकृतायां दर्शनाधिकारः प्रथमः समाप्तः
अर्हम् अथस्पर्शनाधिकारः अथ थत्वं मनसो रसोदया
दपास्यपृच्छाविकाश्यमुत्तरम् । निवेदितुं स्पर्शनमेव दैवत
प्रसादतः सादरमुच्यतेऽधुना ॥ १ ॥
-दर्शनादनुक्रमप्राप्तं स्पर्शनमाह
· स्पर्शनादङ्गविद्यायां तथा फलमुदीर्यते ।
तथा वाच्यंफलं स्पर्शादङ्गत्वात् शक्तिशालिनः ॥ १ ॥ स्पर्शनादिति । सर्वस्यापि सामुद्रिकस्य तथा नासिकास्वरपल्लीपातांङ्ग चेष्टादिनिमित्तानां चाङ्गविद्यान्तर्भूतत्वात् स्पर्शनमावश्यकं दृश्यम् । एतेन करज्ञाने स्पर्शनस्यापि हेतूक्तिः । शक्तिशालिनो हस्तस्येत्यर्थः ॥ १ ॥
यद्यपि स्पर्शने मन्त्रोऽपि वक्ष्यते तथापि सर्वत्र तदयोगात्, यन्त्रं सिद्ध" मात्रं प्रश्नोत्तरज्ञानाय प्रदर्शयति / -
"Aho Shrutgyanam"