________________
स्थानलाभमाह
( ११९ )
आत्मभादिनमं यत्रतत्फलं प्रष्टुरादिशेत् ।
शीर्षे मुखे तथा कण्ठे राज्य भोज्यं सुखं भवेत् ।। ७५ ।। आत्मभादिति । प्रष्टुः करदर्शयितुः श्रद्धावृद्धयर्थं सद्यः प्रत्ययं फलं शुभाशुभरूपं वाच्यम् ॥ ७५ ॥
जठरे गुप्त चिन्तास्याद्गुह्ये भोगो नृपाद्वनम् ।
स्कन्धे जयोऽथ शेषाङ्ग क्लेशो हानिर्भयं भवेत् ॥ ७६ ॥ . जठर इति । व्यक्तम् ॥ ७६ ॥
इति देहचन्द्रो ज्योतिर्मार्गे तद्रीत्यैव हस्तचन्द्र चकदर्शनम् । अथ वर्णादिना करशाखास्वरूपकथनचक्रं निरुपयति ।
अङ्गुष्ठः पञ्चवर्णः स्यात् रक्तपीत सितासितः । शत्रुहाद्या हरित्पीते रक्ते पिङ्गः सितेऽरुणः ॥ ७७ ॥
अङ्गुष्ठ इति । पूर्णातिथेराश्रयेण कठापूर्ण चन्द्राश्रयेण चतुः प्रियनाम्नोऽन्वर्थाद्विरङ्गुष्टस्य पञ्चवर्णत्वं प्रदेशिन्याः शत्रुहननव्यापार्यत्वेन कुजाश्रयाद्वारक्तत्वं मध्यायाः पीतचं तत्र हेतुः प्रागुक्तः गौर्या - शुक्लत्वं कर्कराशिः पाटलः सिंहः पाण्डुरिति राज्योः कविरत्यन्तधवल इत्युक्तेः कवेश्चाधिष्ठानात् से आरुणपीय पीयंगुवन्नकसिणा इति नमस्कार स्तवनवचनान्नीलत्वमिश्रमेव शुक्लत्वं समाङ्गुलिवेन वर्णद्वयात् । तारायाः श्यामत्वं प्रागेव निश्चितं शुत्रुहाद्यास्तर्जनी प्रमुखारक्तादयो वर्णाः स्युः वर्णसाङ्कर्यमाह्–हरिद्वर्णपीते पिङ्गवर्णोरक्ते अरुण : सितेन्तर्भवति, एवं यथा योगं वाजिसन्ध्यावस्त्र शालिसुवर्णादिवर्णत्वेन सर्वान् वर्णान् निवेदयेत्, एते वर्णा मुष्टिचिन्तादिषु भाव्या पूर्वं वर्णोक्तिर्भिन्नविषया तन्न पुनरुक्तेिः ॥७७ अथेन्द्रियव्यवस्थामाह
मध्यमा नासिका जिह्वा सावित्री च गवेषणी । स्पर्शनं नयनं तारा श्रोत्रमङ्गुलकोमतः ॥ ७८ ॥
१ श्रुत्यारेटको मध्याङ्गुल्यौ नाशापुटद्रये इतिविवेकविलासोक्तिस्तच्च लाभाय ॥
" Aho Shrutgyanam"