________________
(७) सम्पूर्ण ज्ञानेन भूतभविष्यद्वर्तमान त्रिकाल ज्ञानं भाति, कस्मिन् समये किं भविष्यति शुक्लपक्षे जन्म वा कृष्णपक्षे, वामदक्षिणहस्तयोः सम्पूर्णतत्वं दर्शितम् ।
तथा चास्मिन् ग्रन्थे हस्तविषयदर्शकानि चित्राणि समावेशितानि यथा पञ्चाङ्गुली देवी चित्रं, पुरुषस्य दक्षिणवामहस्तयोः स्त्रियावाम दक्षिणहस्तयोः भिन्न भिन्न लक्षण दर्शनाय वाम दक्षिणहस्ततलयो चित्रद्वयं मस्तकरेखाया श्चित्रमेकं, द्वत्रिंशल्लक्षणस्य चित्रमेकं समावेशितम् ।
चात्र ग्रन्थेऽनेकविषयाणि सन्ति पठनपाठन जिज्ञासुनामतीवोपयुक्तं मन्थरत्नं वर्तते ।
ग्रन्थसंशोधनसमये उपलब्धानि ग्रन्थानि
१ पुस्तकमेकं प्रातःस्मरणीय विश्ववन्द्य “ मुनिमहाराजश्री मोहनलालजी जैन ज्ञानभंडार सुरत नगरतः प्राप्तमतीव शुद्धम् ।
२ पुस्तकमेकंप्राच्यविद्यासं शोधनविद्यामंन्दिर पुना ( भांडारकर इन्स्टिट्यूट ) इत्यस्मात् प्राप्तमतीवाशुद्धम् ।
३ पुस्तकमेकं श्रीमद् योगनिष्ट जैनाचार्य बुद्धिसागरसूरि जैन ज्ञान भंडार विजापुर (गुजरात) इत्यस्मात् प्राप्तमतीव शुद्धम् ।
एतत् पुस्तक त्रयाधारेण भूरिपरिश्रमेणसंशोधितम् ।
जैन शिष्य ज्योतिषविद्यामहोदधि श्रीमज्जैनाचार्य श्रीजयसूरि थरपरमगुरुवर्य्यस्य कृपया, एतन् सम्पादितम् ।
तत् संशोधनकणि विश्ववन्य शान्तभूर्ति परमप्रभाविक मुनिमहाराज श्री मोहनलालीय जैन संस्कृत प्राकृत जंगविद्यालयप्रधाना ध्यापस्य वेदान्तवागीश न्यायव्याकरण तर्क साहित्य निष्णातस्य बलिया मण्डलान्तरर्गत छाता ग्रामवास्तव्यस्य पण्डितक्षीतिश्वरशर्मणोत्यन्त सहाय्येन संशोधितम् । तद् बाढं धन्यवादं समर्पयामि ।
___ अथ चात्र मानुषशेमुषीसुलभंस्खलितं । शैवलं किलविहायकेवलं निर्मलं किमु नपीयतेजलम् । इतिनान्येन परमकारुणिका विद्वान्सःशोधयित्वानुगृह्णन्त्वित्याशस्ते. श्रीदशाश्रीमाली जैनधर्मशालाभुवन स्थल वेताल पेठ
लेखकः पुण्यपत्तनम् वीर सं. २४५६
प्रतापमुनिः कार्तिक कृष्ण १० महावीर दीक्षापर्व.
"Aho Shrutgyanam"