________________
11 इति दिनलमचक्रदर्शनम् ॥ ___ अथ हस्तेऽङ्गुष्ठस्य प्राधान्येन तत्रापि ग्रहत्रयव्यवस्थानात् नक्षत्र चक्र सलादि भागेषु अङ्गुलीषु नक्षत्र त्रयस्यैव पर्वत्रयेण नियमात् द्रेष्काण चक्रमाह--
लग्नञ्चेत्प्रथमे व्यंशेद्रेष्काणः प्रथमस्तदा ।
द्वितीयश्चद्वितीयांशे तृतीयस्तु तृतीयके ॥ ५८॥ लममिति । प्रागुक्त भावचक्रेषु दिनलग्ने वा यन्मूर्तं तदगुल्या आद्य शे तदालग्नस्य प्रथमद्रेष्काण इत्यादि सुबोधं न चैव लमवेलायास्त्रयोभागा नप्राप्यास्तदा द्रेष्काणैस्तस्कराःस्मृता इत्यादिप्रश्नेषु अविमर्श: भावचक्रेप्वपि मेषराशिवतः प्रथम द्रेष्काण एव वृषस्य द्वितीय एवेत्यादि सर्वस्य नियमश्च प्रसज्येतेति वाच्यम् । हस्ते क्षणसमये लममिति कोऽर्थः दिनलग्नं विचार्य तच्चेत् प्रथमे अङ्गुलिज्यशे तदा मेषराशिवतो भावचक्रे 'जागरूक' इत्यादिना प्रबन्धन प्रायुक्तऽपि प्रथमोद्रेष्काणः । द्वितीयेत्रिभागे दिनलग्नस्थितौ द्वितीयः, एवं तृतीये तृतीय इत्यर्थसमर्थनात् इदमेव च सामुद्रिके दिनलग्नप्रयोजन ज्ञेयम् । एवं सामुदिकमताल्लब्धम्। दिनलग्नमपि यदि ज्योतिर्गिप्राप्तस्य लमस्य प्रथमे त्रिभागे तदा प्रथमो द्रेष्काण इत्यादिबोध्यम् । तिथिवारादिानामौदायिका नामेव ज्योतिर्गिप्राप्तानां हस्तक्षणदिने प्रातरादा गणनारंम्भण तन्मार्गस्यापि प्रामाण्यात्, एवं नवांशा अपि द्रेष्काणे लब्धे प्रतिद्रेष्काणमंशत्रयसंख्यया सुलभा एवं त्रिष्वपि नवांशेषु कतमो नवांश इति निर्णेतव्ये दिनलग्नं चच्चिरं तदा प्रथमोऽशः स्थिरं चेद् द्वितीयोऽशः द्विस्वभावं चेत्तृतीयोऽश इतिवाच्यम् । तत्र राशिलमभावचक्रेषु दिनलमेऽपि अंशानामजैणतुलकर्कादित्वं ज्योतिमार्गवदेव अङ्गुलिचतुष्टये तथैव राशिचक्रे मूलपर्वणि मेषादिव्यवस्थानात्, अंशस्वामिनस्तु प्रागेवोक्ताः, सामुद्रिकभूषणोक्ताः न पुनज्योतिः शास्त्रानुगा इति नवांशचक्रं तथा पुसो दक्षिणकरे वि
१ समुद्दिश्यकृतः प्रश्नः फलं तस्यैव जायते इति नरपति ग्रन्थे ।
"Aho Shrutgyanam"