________________
( १०० )
तयार्द्ध रेखया अपि शुभफले हीनत्वमित्यावश्यकमेवस्थान ज्ञानम् ||३५॥ तदेवाह-
ततो हस्ते क्षणघटी मासस्तस्य शुभाशुभम् ।
रेखा कामदुघारूपाद्वाच्यं लक्षणशिक्षितैः ॥ ३६ ॥
तत इति । कामदुघा अङ्गुली तत् स्वरुपमपि जातिदिग् द्रव्यराश्यादि लक्षणं तिथिवार नक्षत्र प्राप्ति लक्षणं बावर्णादि निश्चितं वा तस्मात् शुभसहितमशुभं शुभमपि स्थानं कार्य विशेषापेक्षया अशुभ तथा शुभेतरदपि कार्यविशेषापेक्षया शुभमित्यासह --
तर्जन्याञ्च कनिष्टायां प्राप्तो मासस्तु नो शुभम्
शेषस्थाने शुभोझूठे रणपश्चेति भङ्गदः ॥ ३७ ॥ तर्जन्याजयदः सोऽपि तातस्यः क्वापिनाशुत्रेः । लक्ष्मी स्थितो धनकरो भरुस्थपददायकः ॥ ३८ ॥
तर्जन्यमिति । पद्यद्वयं व्यक्तम् | स्थान द्रव्यादियोगे नेत्याद्यमे वक्ष्यतेऽपि कूर्मोन्नतत्वं नरवानां श्रेष्ठं तदपिकूर्मोन्नितेङ्गुष्ठनखेनरस्याद्भाग्य वर्जित इति स्थान योगात् ' पुंसो दक्षिणभागे स्त्रिया व 'मे' इति द्रव्य योगात् 'विप्पाण वेयकरि' इत्यादि जाति योगात् 'तिलो हस्ततले राज्ञां निन्द्यः सवणिजां शुभं' इत्यादि व्यवसाययोगात् स्त्रशकस्य नरस्येति भावयोगात् ' अहवातोपच्छा' इति तथा 'वालत्तणंमि जाणसु' इति कालयोगात् उडुपामेङ्गिनीपोतस्थातुलाग्रमघवावज्रमित्यादि तथा 'परदेशे मरणं' इत्यादिक्षेत्रयोगात् भोजनावसरे दुःखमित्याद्यवसरयोगात् शुभाशुभव्यक्तिरप्येवं मन्तव्या ||३८|| अथैकस्मिन्नेव हस्ते मासचक्रमाह
यद्वा माघादयो मासा : द्वादशापि लघोः क्रमात् । दिनोदयाद् पञ्चघटी मानाः पाणिक्षणावधिः ॥ ३९ ॥
यद्वेति । माघादयोऽत्र मासास्तन्नक्षत्रचक्रे कनिष्ठा मूले मघानक्षत्रस्थानात् किञ्चमासेषु मुख्यत्वं माघस्यैव प्रभावादीनामद्वानां सम्भवहेतुत्वात्-यदुक्तं
"Aho Shrutgyanam"