________________
मध्यात्रै प्रदेशिन्यां माधवोऽङ्गष्ठकेऽपरः ॥ ३४ ॥ आषाढो भूतले प्राप्तः स्यादेवमुत्तरायणम् ।
वर्तमानोहि यो मासः प्रातः स पश्चनाडिकाः ॥ ३५ ॥ वामे माघ इति । नक्षत्र चक्रे मघायाः कनिष्ठा मूले स्थानात् ॐकारः उदयं याति माघफाल्गुनमासयोरिति । नरपति ग्रंथवचनाच्चतारायां माघमास आम्ला कनिष्ठा इति वक्ष्यमाणत्वेन शिशिरे चामलकर समिति वैद्यशास्त्रवचनात् । शिवायां कृष्णपक्षादित्वाच्छिवरात्रिपर्वपुण्यः फाल्गुनः तन्मूले पूर्वाफाल्गुन्याःस्थानात् तथा मध्यायां चैत्रः उकारश्चैत्रे पौधेस्यादिति उकार स्वराश्रयात् तत एव स्निग्धामध्या इति वक्ष्यमाणत्वात् घृतं वरान्ते इति वैद्यक ग्रंथे चैत्रेस्निग्धाहारः । आद्यसंक्रान्ति हेतुर्वैशाख आद्याङ्गल्या वसाहो मगामास सिद्धाय इतिवचनात । ज्येष्ठः सर्वाङ्गुलीषु प्रधानत्वात् अङ्गुष्ठे ज्ञेयः सूर्यस्थानं चायमेव । पुनराषाढो वामे हस्ततले नदीप्रवाहात् उत्तरायण माधादित्येन प्रकारात् सूर्यस्यापि अङ्गुली नखतेजो वृद्धिहेतुः किरणवर्द्धनात् यदुक्तं शतानिद्वादशमधौ त्रयोदशस्तु माधवे चतुर्दशः पुनज्येष्ठे नभोनभस्यो स्तथा ॥ १ ॥ पञ्चदश वत्याष्टाढे षोडशैव तथाश्चिने कार्तिकत्वेकादश च इतोन्येवं तपस्यति ॥२॥ मार्गे च दशमास्त नि शतान्येवं च फाल्गुन पौष एव परेमासि सहस्रकिरणा वेरिति ॥ रंविरूपाङ्गुष्ठो यदिग् भागस्थस्तन माधादिजातस्य जन्मज्ञाने हस्तवीक्षणे वामहस्तस्य प्राधान्यमित्यर्थादयन चक्रमासचक्रान्तर्भूतमेव ।
तदेवं व्यवस्थायां मासस्य हस्ते क्षणलायां भोगलाभाय करणमाहवर्तमान इति । ननु यथा स्थानं व्यवस्थितैर्मासैरेव लक्षणानुसारात् शुभा. शुभज्ञान संपन्नमेव किं तर्हि भोगमानचिन्तयेति चेत्, उच्यते लक्षणविचारस्यातिगहनत्वात् जातिदिग् द्रव्यादिलाभज्ञाने मासनिर्णयार्थ स्पर्शपृच्छभय वा शीघ्रफलकथनस्थानत आन्तयं बलीय इति न्यायात् स्थानानां शुभाशुभज्ञान स्यात्रोपोगित्वं स्थाने प्राप्तेऽपि यदि रेखादि लक्षणं शुभं तदा विशिष्टमेव फलं न चेत् शुभस्थानेऽप्यायत रेखायामशुभफले न्यूनता अशुभे स्थाने
"Aho Shrutgyanam"