________________
(४)
७ मातृकाप्रसादः
८ विजयदेवमहात्म्यविवरणम् ९ सप्तसंधानमहाकाव्यम्
१० ब्रह्मबोधः ७ अयमपि अध्यात्म विषयको ग्रन्थः ।
८ श्रीपन्यास वल्लभाविजय गणिना निर्मिते ग्रन्थे कतिपय प्रयोगाणां स्पष्टीकरणं कृतवान् ।
९ नवसगात्मकोऽयं ग्रन्थः । अस्मिन् ग्रन्थे त्रिषष्ठीशलाका पङ्क्तो समुत्पन्नानां सप्तानां महापुरुषाणां चरित्रं व्यावर्णितम् । एकस्मिन्नेव वृत्ते ऋषभदेवः शान्तिनाथः, नेमिनाथः, पार्श्वनाथः महावीरस्वामी, ये पञ्चतीर्थकराअस्मिन्नवसरपिणिकाले जातानि सन्ति, तथाषष्ठः कृष्णनाम वासुदेवः सप्तमो रामचन्द्राख्यो बलदेवश्चैषां सप्तानां महापुरुषाणां चरित्राणि वर्णितानि । " सतसंधान महाकाव्यं " इत्यन्वर्थनामाभिधानं चकार । अस्मिन्महाकाव्ये यमकश्लेषानुप्रास गाम्भीर्य भावदर्शकं कविचातुर्यवर्णनं सुन्दरालङ्कारादिकञ्च, तथा वनविहारादि नगनगरादिक वर्णनञ्च स्वशक्ति प्रागलभ्येन कृतम् ।
अस्य ग्रन्थस्य रचनाद् प्राक् परमप्रमु श्रीहेमचन्द्रसूरिणापि रचितएतन्नामको ग्रन्थो श्रूयते; तस्यानुपलब्धौ ग्रन्थोऽयं रचितः । इत्यधःपद्येन स्पष्टयति ।
श्री हेमचन्द्रसूरीशैः सप्तसंधानमादिमम् ।
रचितं तदलाभेतु तदियं तुष्टये सताम् ॥ १॥ इत्यनेन पद्येन प्रागप्येतनामकं काव्यमासीत् । तत्रत्यानि कानि चिद् पद्यानि पाठक विनोदाय लिख्यन्ते यथा--
श्रीनाभिजन्मान्वयपद्मभास्करः स्तुतोऽञ्चितः श्रीमुनिसुव्रतान्वये । जिनः शिवायास्तु दधन्महोदयं सभासतां यद्भजने जयाश्रयः ॥ १ ॥ श्री अर्हदाद्यकृतशान्तिसर्ग समुदजन्मानवराजवर्गः । श्री पार्श्वनाथः शुभवर्धमानः श्रियाभिरामस्तमिह स्मरामः ॥ २ ॥ योवितरागः कृत तीर्थयागः प्रोद्यत्सभामण्डलसांवभागः ।
यो नीतिकारी भुवनोपकारी सेव्यः सभव्यै नवकाव्यनव्यः ॥ ३ ॥ ब्राह्मीह साऽव्यान्निपुणागमादौ यस्या रसाङ्गात्कमलोदयश्रीः । अद्यापि नद्याद्रवसुप्रसादात् सिताम्बराणां जनतानुवृत्तिः ।। ४ ॥ सुखेन दोषाकरवत्समानः यदा सदम्भः सवने सशौचः । काव्येषु सद्भावनया-न मूढः किं वन्द्यते सजनवन्न नीचः ॥ ५ ॥
"Aho Shrutgyanam"