________________
मिथ तुरीयमाख्यातं मुनिपुंगवकोटिमिः। यस्य वित्तं स्थिरीभूतं समधातुश्च यो नरः तत्पाथितं च बहुशः स्वप्ने कार्य प्रदृश्यते ॥ स्वममदा नव भुवि भावाः पुंसां भवन्ति हि । श्रुतं तथानुभूतं च दृष्टं तत्सदृशं तथा ॥ चिन्ता च प्रकृतिश्चैव विकृतिश्च तथा भवेत् । देवाः पुण्यानि पापानीत्येवं हि जगति तले ॥ तन्मध्यं आधषटकं तु शिवं वाशिमप्यथ । अन्त्यं त्रिकं तथा नृणामचिरात्फलदर्शकम् ॥
रतेर्हासाश्च शोकाच्च भयान्मूत्रपुरीषयोः॥ प्रणष्ट वस्तुचिन्तातो जातः स्वप्नो च्या भवेत् ।।
फफाप्लुतशरीरस्तु पश्येद्वहुजलाशयान् । नद्यः प्रभूतसलिला नलिनानि सरांसि च ॥ स्फटिक रचितं सौध तथा श्वेतं च गहरम् । तारागणं च चन्द्रं च तोयदानां च मण्डलम् ।। रसांश्च मधुरान्दिव्यान्फलानि विविधानि च । आज्यं यज्ञोपकरणं यज्ञमण्डपमुत्तमम् ॥ शुमालङ्कारशालिन्यः पृथुलस्तनमण्डलाः । मुलोचनाः पीन सकिथ 'परिशोभितमध्यमाः ॥ श्वेतवस्त्रैः श्वेतमाल्यैर्विकासन्त्यश्च योषितः। पित्तप्रकृतिको यश्च सोऽग्निमिद्धं प्रपश्यति ॥ विद्युल्लतायाश्च तेजस्तथा पीतां वसुन्धराम् । निशितानि च शस्त्राणि दिशो दावानलार्दिताः॥