SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ અધિકાર ત્રીજો अंगप्रत्यंगयुतं सकलं शारीरमिदमिति प्रोक्तम् ॥ आवर्तप्रभृतीनामनुक्रमाल्लक्षणं वयं ब्रूमः - ॥१॥ रोमत्वग्वालभवः स्यादावर्तः शुभस्त्रेधा ॥ शस्तो दक्षिणवलितः स्निग्धो व्यक्तः परो न शुभः ॥२॥ करतलपदश्रुतियुग्मे नाभौ वा त्वम्भवो नृणाम् ॥ सस्यादपरौ द्वावपि लक्षणविद्भिज्ञेयौ यथास्थानम् । ॥३॥ सव्यापसव्यभागे शिरास स्याद्यस्य दक्षिणावर्तः ॥ श्वेतातपत्रलक्ष्मा लक्ष्मीः करवर्तिनी तस्य रोमावर्तः स्निग्धो भूयुगमध्ये प्रदक्षिणो व्यक्तः ॥ यस्योर्णाख्यः पूर्णः सोम्बुधिकांचे वो भर्ता ॥५॥ भुजयुग्मे यस्य स्यादावर्तं द्वितीयमंगदप्रतिमम् ॥ नियतं सोखिलभूमिं पुरुषो निजवाहनां वहति ॥६॥ यस्य करांभोजतले दक्षिणवलितो भवेदतिव्यक्तः ॥ परिचितशौचाचारो धर्मपरः स्यात्स वित्ताढ्यः ॥७॥ भाग्यवतां पंचांगुलिशिरःसु सौख्याय दक्षिणावर्तः ॥ प्रायः पुंसां वामावर्तो दुःखाय पुनरेषः ॥८॥ श्रुतियुगनाभ्यावर्ताः प्रदक्षिणाः श्रेयसे भवंति नृणाम् ।। चूडावोंप्येकः श्रेष्ठतरो दक्षिणः शिरसि शीर्षे वामे भागे वामावर्ती भवेत्स्फुटो यस्य ॥ स क्षुत्क्षामो भिक्षां रूक्षां निर्लक्षणो लभते ॥१०॥ वामो दक्षिणपाधै प्रदक्षिणो वामपाईके यस्य ॥ न तु तस्य चरमकाले भोगो नास्त्यत्र सन्देहः ॥११॥
SR No.009533
Book TitleJain Samudrik Panch Granth
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Jani
PublisherSarabhai Manilal Nawab
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Devnagari & Jyotish
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy