________________
२०२
૨ સામુહિકતિલક जंघातः परिणाहो ध्रुवमष्टाधिकदशांगुलानि स्यात् ॥ विंशतिरेकोपगतो जानुभत्रिंशदूररपि
॥४३॥ अष्टादशांगुलमिता विस्तारा जायते कटिः॥ पुंसां नाभेरन्तः परिधि षट्चत्वारिंशदंगुलतः ॥४४॥ पुंसां द्वादश कुचयोरभ्यन्तरमंगुलानि दैर्येण ॥ उरसि च युगोपनिष्ठात्षडंगुलो भवति कक्षांतः ॥४५॥ विंशत्युरःस्थलं स्याद्विस्तारादंगुलानि चतुरधिकः ॥ पृष्ठ्या सह परिणाहे षडधिकं पंचाशदंगुलिकम् ॥४६॥ पर्व प्रथमं बाह्वोरष्टादशांगुलानि दैर्येण ॥ षोडश पुनर्द्वितीयं सततलं मध्यमांगलिका
॥४७॥ इति समुदायेन भुजः षट्चत्वारिंशदंगुलानि स्यात् ॥ पञ्चांगुलविस्तारं पाणितलं शस्तरेखान्तम्
॥४८॥ मध्यांगुलीविहीना प्रदेशिनी भवति पर्वणार्द्धन ॥ तत्समनापानामा कनिष्ठिका पर्वपरिहीना ॥४९॥ अंगुष्ठस्यायामोंगलानि चत्वारि जायते पुंसाम् ॥ निजपर्वार्द्धपरिमिता भवन्ति सर्वेपि पाणिनखाः ॥५०॥ ग्रीवायाः परिणाहों गुलानि चतुरधिकविंशतिः शस्तः ॥ नासापुटद्वयान्तर्विस्तारो द्वयंगुलं मानम्
॥५१॥ आचिनुकपश्चिमकचप्रान्तं द्वात्रिंशदंगुलो मूर्दा ॥ कर्णदयस्य मध्ये पुनरष्टाधिकदशांगलिकः
॥ ५२ ।। पुंसामंगे मानं स्पष्टं शिष्टैः पुरा विनिर्दिष्टम् ॥ . इह पुनरुपयोगा? दिङ्मात्रमिदं मयाप्युक्तम् ॥५३॥ विंशतिवर्षा नारी स पंचविंशतिसमो नरो योग्यः॥ जीवति तुयाँशो वा मानोन्मानप्रमाणानाम् ॥ ५४॥