________________
२१८
अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम्
* गादाधरी , रूपेण तादृशसाध्यावगाहिताविरहवताप्रयोजकत्वात्तादृशस्य च रूपस्य बाधादिविषयतानन्तःपातिव्यभिचारादिविषयतासाधारणव्यभिचारादिरूपविशिष्टविषयतात्वाव्यापकत्वात्तदुव्यापकरूपावच्छिन्नाप्रयोज्यत्वस्य उक्तबाधादिविषयिताप्रयुक्तसाध्यावगाहित्वाभाववत्तायामक्षतत्वात् ।।
मेयत्वविशिष्टव्यभिचारादिविषयिताया येन रूपेण व्याप्त्यादिग्रहप्रतिबन्धकतावच्छेदकता तद्रूपेण निरुक्तविषयतात्वव्यापकेन मेयत्वविशिष्टव्य
* चन्द्रकला * तात्वं तदवच्छिन्नप्रयोज्यत्वविरहादेव स्वपदेन तादृशबाधत्वस्योपादानसम्भवादित्याह बाधादीति । बाधघटकव्यभिचारविषयितामात्रवृत्तितद्वयभिचारविषयितात्धेन रूपेणेत्यर्थः।
तादृशस्य च = यतूकिञ्चिद्वयभिचारविषयितात्वव्यापकस्य च । अक्षतत्वादिति । उक्त विवक्षया न व्यभिचारघटितबाधे अव्याप्तिशंकाऽपि सम्भवतीति हृदयम् ।
प्रमेयत्वविशिष्टव्यभिचारत्वन्तु नैतादृशं स्वम्, प्रमेयत्वविशिष्टव्यभिचारत्वाब. च्छिन्नविषयकनिश्चयाव्यवहितोत्तरजायमानानुमिति निष्ठायाः तादृशोभयाभावप्रयोजकप्रकृतसाथ्यव्याप्तिघटिततादृशव्याप्तिविशिष्टहेतुप्रकारकत्वाभावाधिकरणताया व्याप्तिग्रहप्रतिबन्धकतावच्छेदकव्यभिचारविषयितावृत्तिप्रमेयत्वविशिष्टव्यभिचारविषयितात्वा - वच्छिन्नप्रयोज्यतया यकिञ्चिविशिष्टान्तरशुद्धव्यभिचारविषयितात्वव्यापकतादृशव्यभिचारविषयितात्वावच्छिन्नप्रयोज्यत्वस्याप्यावश्यकत्वादित्याह प्रमेयत्वविशिष्टेति । येन रूपेण = व्यभिचारविषयितात्वेन रूपेण ।
* कलाविलासः * णीयम् । तथाच तादृशविशिष्टान्तरविषयित्वाव्यापकीभूतविषयिताशून्यज्ञानीयविषयित्वाऽप्रयोज्यत्वस्य निवेशनेनैव बाधविषयितान्तःपातिव्यभिचारविषयितामादायव्यभिचारघटितबाधेऽव्याप्तिवारणसम्भवे ताशविशिष्टान्तरविषयितात्वव्यापकत्वनिवेशो व्यर्थ इति चेन्न, जलवज्जलं जलाभाववत् अवृत्तिजलवज्जलादित्यत्र जलवजलवज्जलरूपबाधेऽव्याप्तयापत्तेः। तत्र जलस्वरूपपक्षतावच्छेदकेन घटावगाहिजलवजलवजलमितिबाधज्ञानीयविषयिताया जलरज्जलवद्रूपविशिष्टान्तरविषयित्वाव्यापकीभूतविपयिताशून्यज्ञानीयतया तद्वृत्तिबाधविषयितात्वावच्छिन्नप्रयोज्यत्वस्य स्वविषयिताप्रयोज्यत्वस्य च द्वयोःसाध्यवैशिष्टयावगाहित्वाभावाधिकरणतायां सच्चादतो व्यापकत्वपर्यन्तानुसरणमिति ध्येयम् ।
"Aho Shrutgyanam"