________________
चन्द्रकला-कलाविलासाख्यटोकाद्वयोपेतम् २१७
* गादाधरी * विषयिताप्रयोज्यायां विशिष्टपक्षे विशिष्टसाध्यवैशिष्ट्याद्यवगाहित्वाभावाधिकरणतायां प्रयोजकतया तादृशवाधादेदुःसंग्रह इति वाच्यम् , यत्किञ्चिद्विशिष्टान्तरविषयितात्वव्यापकरूपावच्छिन्नाप्रयोज्यतानिवेशेन तत्संग्रहसम्भवात् , व्यभिचारादिविषयिताया बाधविषयतान्त:पातिविपयितामात्रवृत्तिरूपेणैव उपदर्शितसाध्यवत्ताग्रहप्रतिबन्धकतावच्छेदकतया तेनैव
ॐ चन्द्रकला व्यभिचारिवह्निमत्स्वरूपबाधाद्यर्थकम् । समाधत्ते यकिञ्चिदिति । तथा च स्वावच्छिन्नविषयिताप्रयोज्या या स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदक. निरुक्तलक्षणाश्रयीभूतो यत्किञ्चिद्विशिष्टान्तरतावच्छेदकधर्मः तदवच्छिन्नविषयितात्वव्यापकरूपावच्छिन्नाऽप्रयोज्या तादृशोभयाभावप्रयोजिकाभावाधिकरणता सा यस्य स्वस्य एवम्भूतं यत् स्वं ताहशस्ववत्वमेव लक्षणार्थो वक्तव्यः ।
तथा च न व्यभिचारघटितबाधेऽव्याप्तिःधूमाभाववद्धमव्यभिचारिवह्निमत्त्वरूपतादृशवाधत्वावच्छिन्नविषयिताप्रयोज्यायास्तादृशोभयाभावप्रयोजकपक्षविशेष्यकसाध्यप्रकारकत्वाभावाधिकरणताया वाधविषयितान्तःपातिब्यभिचारविषयिताप्रयोज्यत्वेऽपि तादृशबाधत्वरूपस्वावच्छिन्नाऽविषयकप्रतोतिविषयतावच्छेदकयकिञ्चिद्वयभिचारत्वरूपविशिष्टान्तरतावच्छेदकधर्मावच्छिन्न विषयितात्वव्यापकं यत् निरुक्तबाधविषयितानन्तःपातिव्यभिचारविषयितासाधारण सामान्यतो व्यभिचारविषयि
* कलाविलासः * एतेन केषाञ्चिन्मैथिलानां हृदत्वावच्छेदेन वह्विसाध्यकस्थले तदवच्छेदेन वह्नयभावववदस्य दोषत्वसम्पादनाय विशिष्टान्तरतावच्छेदकघटकीभूतायां प्रतिबन्धकतायां स्वावच्छिन्नविषयिताव्यापकत्व-स्वावच्छिन्नविषयिताव्यापिका या सामा. नाधिकरण्यमात्रेणानुमितिप्रतिबन्धकता तदन्यत्वोभयसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववरवरूपविशेषणदानं प्रतिबन्धकताघटितलक्षणेऽप्यनादेयम्, तस्यालचयतया सत्संग्राहकविशेषणदानस्याऽनौचित्यादिति ध्येयम् ।
यत्किञ्चिद्विशिष्टान्तरेति । ननु व्यभिचारविषयितानिष्ठप्रयोजकतावच्छेद कीभूतनिरवच्छिन्नवतित्वनिष्ठावच्छेदकताकतादृशविषयितात्वस्य जातिमान् धूमन्यभिचारीत्यादिज्ञानीयविषयितासाधारणव्यभिचारादिरूपविशिष्टान्तरविषियितात्वाऽव्यापकतया मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः । अतः तद्वारणाय यत्किञ्चिद्विशिष्टान्तरविषयित्त्वाव्यापकीभूतविषयिताशून्यज्ञानीयविषयितात्वव्यापकत्वमेव विवक्ष
"Aho Shrutgyanam"