________________
२०४
भनुमानगादाचया सामान्यनिरुक्तिप्रकरणम्
ॐ गादाधरी लक्षणसमन्वय इति भावः । न च हृदो न वह्निमानित्यादिनिश्चयानन्तरं जायमाने लदो द्रव्यं जलमयो वहिमानित्याद्याकार कसमूहालम्बने ह्रदत्वादिना ज्ञायमाने वलयादिवैशिष्ट्यावगाहित्वासत्वादसम्भव इति वाच्यम् , पक्षतावच्छेदकान्निा या पक्षनिष्ठविशेष्यता तन्निरूपिता या साध्यत्तावच्छेदकावच्छिन्ना साध्यप्रकारता या च साध्यतावच्छेदकावच्छिन्नसाध्यप्रकारतानिरूपित्तव्याप्यत्वप्रकारतानिरूपितहेतुतावच्छेदकाव - च्छिन्नप्रकारता तत्प्रतियोगित्वयोरगाहित्वान्तद्वयेन विवक्षणात , विशिष्टविषयाप्रसिद्धावपि पर्वताचशे काञ्चनमयत्वाद्यवगाहिभ्रमविषयताया ब्यधिकरणकाचनमयत्वाद्यवच्छिन्नायाः प्रसिद्धया लक्षासमन्वयात् । ध्याप्तिप्रकारतास्थले च निरूप्यनिरूपकभावापन्ना व्याप्तियटकतत्तत्पदार्थ
• * चन्द्रकला * श्चेत्याकारिकायां समूहालम्बमानुभितो ह्रदत्यप्रकारे निरुक्तसमूहालम्बनज्ञानविषये जलमये वह निवैशिष्ट्यावगाहित्वस्य बहनिव्यायधूमवैशिष्ट्यावगाहित्वस्य च सत्त्वेन तादृशोभयामावविरहात् इत्याशंकते नवेति । वाच्यमितिपरेणान्वयः । उत्तरयति पक्षतेति । पन्नतावच्छेदकावच्छिन्न पक्षनिष्ठविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिनप्रकारताकत्व-साध्यतावच्छेदकावच्छिन्ननिरूपितत्यसंसविच्छिन्न प्रकारतानि पितव्याप्तित्वावच्छिन्न विशेष्यत्वावच्छिन्नप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्न विशेष्यत्वाव - च्छिन्नप्रकारताकत्वोभयाभावस्यैव दीधितिग्रन्थेन विवक्षपोयतया नोक्ताऽसम्भवः, हृदो द्रव्यं जलमयी वहनिमानित्यादिसमूहालम्बनशाने हदत्वावच्छिन्नविशेष्यतानिरूपितवनित्वावच्छिन्नप्रकारताकत्वविरहेण तत्र ताहशोभयाभावस्याक्षतत्वादिति समुदितता पर्यम् ।
ननु धूमवान् वर्ने रित्यादौ धूमाभाववृत्तित्वविशिश्व निरूपव्यभिचारेऽव्याप्तिः, वह निव्यापकधूमसामानाधिकरण्यरूपव्याप्तरप्रसिद्ध्या तादृशव्यभिचारनिश्चयोत्तरानुमितौ साध्यव्यातिवरितोनयामावस्य वक्तमशक्यत्वादित्यत आह व्याप्तिप्रकारतेति । व्याप्तिप्रकारताघटितोमयाभावनिवेशस्थाने इत्यर्थः । निरूप्येति । तथाच हेतुतावच्छेदकावच्छिन्न प्रकारतानिरूपिताधिकरण विशेष्यत्वावच्छिन्नप्रकारता. निरूपितवृत्तित्वनिष्ठविशेष्यत्वावच्छिन्नप्रकारतानिरूपिताभावनिष्ठविशेष्यत्वावच्छिन्नप्रकारतानिरूपितप्रतियोगित्वनिष्ठविशेष्यत्वावच्छिन्न प्रकारतानिरूपितावच्छेदकत्वनिष्ठविशेष्यत्वावच्छिन्नप्रकारतानिरूपिताभावनिष्ठविशेष्यत्वावच्छिन्नप्रकारतानिरूपितसाध्यता
"Aho Shrutgyanam"