________________
श्रीगुरुवनस्खण्डिने नमः।
अथानुमानगादाधर्याम्चन्द्रकला-कलाविलासारख्यटीकाद्वयसमलङ्कृतम् ।
सामान्यनिरुक्तिप्रकरणम् ।
* चिन्तामणिः अथ हेत्वाभासास्तत्वनिर्णयविजयप्रयोजकत्वानिरूप्यन्ते ।
* दीधितिः __एतावता प्रबन्धेन सपरिकरं हेतुं निरूप्य तत्प्रसङ्गात् तत्त्वनिर्णयादिरूपतत्कार्यकारित्वाञ्च तदाभासनिरूपणं प्रतिजानीते अथेति
* चन्द्रकला के यः सौरगौरवधरो वरदिव्यमूर्तिः श्रीमन्मुनिः समजनीव नवीनकान्तिः । श्रीचन्द्रमिन्दुसदृशं तमहं महान्तं वन्दे सुमङ्गलकरं हरिनामदासः ॥१॥
हेत्वाभासीयसामान्य-निरुत्तः कठिनत्वतः। गादाधरीतिविख्यात-विवृतेरतिविस्तृताम् ॥२॥ कुर्वेऽहं सरला टीको नाम्ना चन्द्रकलामिमाम् ।
साधुवेलाश्रमे सिन्धो-रुदासीनः सतां मुदे ॥३॥ मूले अथेत्यादि । आनन्तर्यमथशब्दार्थः । आनन्तर्यञ्च ध्वंसकालीनत्वमवयवग्रन्थध्वंसकालीनत्वमिति यावत् । अन्वयश्चास्य 'निरूप्यन्ते' इत्यत्र निपूर्वकरूपधात्वर्थ ज्ञानानुकूलव्यापारे । मयेत्यध्याहार्यम् । अध्याहृततृतीयार्थः कृतिजन्यस्वम् , तदेकदेशीभूतायां कृतौ समवायावच्छिन्नाधेयतासम्बन्धेन मदर्थस्यान्वयः। कृतिजन्यत्वस्यापि तादृशधास्वर्थे ज्ञानानुकूलच्यापारेऽन्वयः। तत्त्वनिर्णयविजयप्रयोजकत्वादित्यत्र पञ्चम्यों ज्ञानजन्य जिज्ञासाधीनस्वम् , तत्रज्ञाने प्रकृत्यर्थस्य ताशप्रयोजकत्वस्य स्वप्रकारव.स्वसम्बन्धेनान्वयः । निरुक्तपञ्चम्यर्थस्यापि निपूर्वकरूपधात्वर्थे ज्ञानानुकूलव्यापारेऽन्वयः। कर्मविहिताख्यातार्थः विषयस्वं, तस्य च प्रथमान्तपदोपस्थाप्ये हेतुवदाभासन्त इतिव्युत्पत्त्या हेत्वाभासशब्द.
"Aho Shrutgyanam"