SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ चिन्तामणि अथ हेत्वाभासास्तत्वनिर्णयविजयप्रयोजकत्वान्निरूप्यन्ते । तत्रानुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वम् ॥१॥ यद्विषयकत्वेन लिङ्गज्ञानस्यानुमितिप्रतिबन्धकत्वम् ॥२॥ ज्ञायमानं सदनुमितिप्रतिबन्धकं यत् तत्त्वं वा हेत्वाभासत्वम् ॥३॥ दशाविशेषे हेत्वोरेवासाधारणसत्प्रतिपक्षयोरामासत्वात् तद्बुद्धे. रप्यनुमितिप्रतिबन्धकत्वम् । यद्यपि बाधसत्प्रतिपक्षयोः प्रत्यक्षशाब्दज्ञानप्रतिबन्धकत्वान्न लिङ्गाभासत्वं तथापि ज्ञायमानस्यामासस्यात्र लक्षणं यद्वा प्रत्यक्षादौ बाधेन न ज्ञानं प्रतिबध्यते किन्तूत्पन्नज्ञानेप्रामाण्यं ज्ञाप्यतेऽनुमितौ तूत्पत्तिरेव प्रतिवध्यते । ते च सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च । इतिश्रीगङ्गशोपाध्यायविरचितायां तत्त्वचिन्तामणौ सामान्य निरुक्तिप्रकरणम् । "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy