________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
११५ * गादाधरी ॐ स्कन्दितज्ञानसाधारणतया नानुमितिप्रतिबन्धकतायां तद्व्यापकत्वमित्यनाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयवृत्तित्वविशिष्टाया विशिष्टविषयताया एव व्यापकत्वं प्रतिबन्धकतायां भवता विवक्षणीयं, तदपेक्षया लाघवेन च स्वरूपसम्बन्धरूपावच्छेदकतायां बाधादिरूपदोषविषयतात्वव्यापकत्वं वक्तुमुचितम् ।
तथासति निश्चयत्वाद्यनिवेशात् समानाकारकज्ञानस्य विषयताया भेदस्याप्रामाणिकतया संशयादिज्ञानीयविषयताया अपि निश्चयत्वादिविशिष्टीयतयैव प्रतिबन्धकतावच्छेदकतया बाधादिरूपदोषनिरूपितविषयतात्वव्यापकताया अक्षतत्वात् ।
* चन्द्रकला * व्यापकत्वम् वह्नयाद्यभावविशिष्टहृदादिनिरूपितविषयिताव्यापकत्वम् , भवता-अनतिरिक्तवृत्तित्वरूपावच्छेदकत्ववादिना । तदपेक्षया = तादृशविशिष्टनिरूपितनिरुक्तनिश्चयवृत्तित्वविशिष्टविषयित्वव्यापकत्वनिवेशापेक्षया । उचितमिति । अस्मन्मते लक्षणस्याधिकपदार्थाऽघटितत्वादिति हृदयम् ।
स्वरूपसम्बन्धरूपावच्छेदकत्ववादिनां मते लक्षणस्याऽधिकपदार्थाऽघटितत्वे युक्तिमाह तथा सतीति । प्रतिबन्धकतावच्छेदकतायां तादृशविषयतात्वव्यापकत्वनिवेशे कृते सतीत्यर्थः । समानेति । स्वीयमुख्यविशेष्यतावच्छेदकधर्मावच्छिन्नविशेष्यताकज्ञानेष्वित्यर्थः। अप्रामाणिकतयेति । समानाकारकज्ञानविषयताया भेदाभ्युपगमे संशयनिश्चयसाधारणसमानविशेष्यताकज्ञानानुव्यवसायो न स्यादिति ध्येयम् ।
निश्चयत्वादीति । निश्चयत्वादिविशिष्ट निश्चयनिरूपिततयेत्यर्थः । बाधादौति । हृदो वह्निमानित्यादिस्थलीयवन्यभावविशिष्टहृदात्मकबाधादिदोषनिरूपितविषयितात्वव्यापकताया इत्यर्थः ।
अयंभावः, अनितिरिक्तवृत्तित्वरूपावच्छेदकत्वनिवेशपक्षे वह्नयभावादिविशिष्टहदवाद्यात्मकयद्रूपावच्छिन्नविषयकत्वव्यापकत्वमात्रस्य निवेशो न सम्भवति ताशयद्रपावच्छिन्नविषयकत्वस्य संशये आहार्यशानेऽप्रामाण्यज्ञानास्कन्दितेऽपि ज्ञाने वर्तमानतया तत्र प्रकृतानुमितिप्रतिबन्धकताया विरहादतस्तन्मतेऽनाहार्याप्रामाण्यज्ञानानास्क. न्दितसंशयान्यज्ञानवृत्तित्वविशिष्टयद्पावच्छिन्नविषयकत्वव्यापकत्वं प्रकृतानुमितिप्रतिबन्धकतायां यथोक्तरीत्याऽसम्भववारणायावश्यं निवेश्यम् ।
8 कलाविलास:* शून्यज्ञानीयत्वस्य निरुक्तभ्रमीयगुणवावच्छिन्नविपयितायां सत्त्वादित्ति ध्येयम् ।
"Aho Shrutgyanam"