________________
११४ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* गादाधरी - नच सामान्यपदस्य व्यापकत्वार्थकतया प्रतिबन्धकतावच्छेदकतायां विशिष्टविषयतात्वव्यापकत्वं प्रवेश्यं, तदपेक्षया प्रतिबन्धकतायां विशिष्टविषयताव्यापकत्वनिवेशनमेवोचितमिति वाच्यम् ? यतो वह्नयभावविशिष्टहदादिनिरूपितविषयताया अनुमित्यप्रतिबन्धकसंशयाहार्याप्रामाण्यज्ञाना
8 चन्द्रकला ननु सामान्यपदस्य व्यापकत्वार्थकतया यद्पावच्छिन्नविषयतासामान्यं प्रकृतानुमितिप्रतिबन्धकतावच्छेदकमित्यस्य यद्पावच्छिन्नविषयतात्वव्यापकं प्रकृतानुमितिप्रतिबन्धकतावच्छेदकत्वमित्यर्थकताया आवश्यकत्वात् प्रतिबन्धकतानतिरिक्तवृत्तित्वरूसावच्छेदकत्वघटितलक्षणमेव लघुभूतम्,तस्य तद्पावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धकत्वघटितत्वात् , भवन्मते यद्पावच्छिन्नविषयकत्वत्वव्यापकत्वस्य ताशप्रतिबन्धकतावच्छेदकतायामेव विवक्षितत्वादित्येव नचेत्यादिनाऽशंक्य समाधत्ते यत इत्यादि।
*कलाविलासः हृदत्ववान् घट इत्यादिज्ञाने सामानाधिकरण्यस्य तादृशविशेषरूपेग स्वरूपघटितसंसर्गत्वानभ्युपगमेन असम्भवविरहादिति ध्येयम् ।
अथ स्वरूपसम्बन्धरूपमतिबन्धकतावछेदकत्वघटितकल्पे बाधायेकदेशेऽतिव्या. प्तिवारणाय यद्पावच्छिन्नविषयितासामान्यमित्यत्र सामान्यपदं व्यर्थम्, जातिरवेन हदत्वावगाहिजातिमान् वयभाववानितिज्ञानमादायाऽसम्भपवारणाय अव्यापकोभूतविषयिताशून्यत्वस्यावश्यं निवेशनीयतया वाधैकदेशवह्नयभावत्वाचवच्छिन्नविपयित्वाऽव्यापकविषयिताशून्यत्वस्य वहयभाव इत्याकारकज्ञान एव सत्वेन तदीयवहषभावविपयितायाः मकृतानुमितिमतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकत्वविरहात् ।
__नच गोस्वाभावो गोवाभाववानित्यत्र वाधश्रमविषये गोत्वाभावेऽतिव्याप्तिः स्यात् यदि सामान्यपदं न स्यादिति वाच्यम्, यद्रूपावच्छिन्नसंसर्गतानिरूपितयद्रूपावच्छिन्नविषयितात्वं यद्पावच्छिन्नविषयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं तद्पावच्छिन्नसंसर्गतानिरूपिततद्रूपावच्छिन्नविपयिताशून्यस्वस्यैवाव्यापकीभूतविपयिताशून्यस्वपदेन विवक्षणीयत्वात् समवायत्वावच्छिन्नविपयितानिरूपितगोत्वत्वावच्छिन्नविपपिताशून्यगोत्वाभाव इत्याकारकज्ञानीयविपयितायाः तादृशप्रतिबन्धकतानवच्छेदकत्त्वादिति चेन्न, गुणो न द्रव्यमित्यादौ गुणो द्रव्यमित्याकारकनिरवच्छिन्नद्रव्यत्त्वनिष्ठप्रकारताकबाधभ्रमीयविषयताश्रये गुणेऽतिव्याप्ति. वारणाय सामान्यपदस्यावश्यकत्वात् यथाविवक्षितनिखिलाव्यापकोभूतविपयिता
"Aho Shrutgyanam"