________________
११२
अनुमानगादाधर्थी सामान्यनिरुक्तिप्रकरणम्
* दीधितिः भ्रमात्प्रतिबन्धेऽपि न क्षतिः ।
* गादाधरी
भ्रमात्प्रतिबन्धेऽपि तादृशभ्रमस्यानुमित्यनुत्पादप्रयोजकत्वेऽपि, न क्षतिः-नोक्तयुक्त्या पर्य्याप्तिनिवेशेऽसम्भवस्तदनिवेशे पूर्वोक्तातिप्रसङ्गो वा ।
-
* चन्द्रकला *
तादृशभ्रमस्य = पर्वतादौ वह्नयाद्यभावप्रकारकभ्रमस्य । नोक्तयुक्तयेत्यादि । निरूप्यनिरूपकभावापन्नविषयताया एव स्वरूप सम्बन्धरूपावच्छेदकत्वव्यवस्थापनरूपयुक्त्या नाऽसम्भवः, पर्यात्यनिवेशे च बाधायेकदेशादौ नाऽतिप्रसंगो वेतिसमुदितग्रन्थार्थः पर्यवसितः । स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वघटितलक्षणस्य वक्ष्यमाणाऽतिव्याया दूषणीयत्वेऽप्यनतिरिक्तवृत्तित्वरूपावच्छेदकत्व घटितलक्षणेऽपि वक्ष्यमाणविशिष्टविशेषेऽतिव्याप्तिवारणं दुःशक्यं स्यात् यदि विशिष्टद्वयाऽघटितत्वनिवेशो न स्यादितिविशिष्टद्वयाऽघटितत्व निवेशसूचनाय प्रथमतः स्वरूपसम्बन्धरूपा* कलाविलासः *
एवमनयैव रीयाsनुगतरूपेण प्रतिबन्धकतायां यत् किञ्चित्वादिकं निवेश्य श्रन्यान्यदोषा अपि वारणीयाः । मैवम्, सर्वमाकाशवदित्यादौ श्राकाशाभाववत्सर्वरूपवाधेऽव्याप्तथापत्तेः, सर्वस्वावच्छेदेन श्राकाशानुमितिं प्रति आकाशाभाववद्घटादिनिश्चयस्यापि प्रतिबन्धकतया आकाशाभाववत्सर्वत्वावच्छिन्न विषयकत्वावच्छिन्नप्रतिबन्धकतावच्छेदकाकाशाभावव घटत्वावच्छिन्न विषयित्वाऽव्यापकत्वस्य तादृशसर्वत्वावच्छिन्न विषयितायामक्षतत्वादिति तु विभावनीयम् ।
तदभावस्य
यद्रूपावच्छिन्नविपयितात्वमित्यनभिधाय यन्निरूपित विषयितात्वमित्युक्तौ सर्वमाकाशवदित्यादौ श्राकाशाभाववत्सर्वरूपत्राधेऽव्याप्तिः घटादिनिरूपित विषयिता अपि श्राकाशाभाववत्सव त्सर्वविषयकत्वसमानाधिकरणतया तादृशवाज्ञाने विरहेण यन्निरूपित्तविषयितात्वस्य तादृशवाधविपयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वाप्रसिद्ध रेतो यद्रूपावच्छिन्न विषयितात्वमित्युक्तम् । तथाच घटत्वावच्छिन्न विपयितासामान्याभावस्य तादृशवाधज्ञाने सत्वान्नाव्याप्तिरिति भावः ।
यद्रूपावच्छिन्नविपयिता यादृशविशिष्टविषयकत्वसमानाधिकरणभेदप्रतियोगितावच्छेदित्युक्तौ प्रतियोगित्येन धर्मिणः प्रवेशनीयतया गौरवं स्यादतस्तादृशाभावप्रतियोगितावच्छेदकत्वं यद्रूपावच्छिन्न विषयितात्वेऽभिहितमिति ध्येयम् । श्रव्यापकीभूतविपयिताशून्यत्वसहितलक्षणानुगमस्तु मकृतानुमितित्वव्यापक
"Aho Shrutgyanam"