________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
* दीधितिः * तेन विशिष्टस्याऽसत्त्वेऽपि
* गादाधरी * अप्रतिबन्धकज्ञानविषयतावच्छेदकजातित्वादिविशेषितह्रदत्वादिघटिततत्तद्रूपावच्छिन्नविषयितात्वावच्छिन्नाभावस्य दोषात्मकविशिष्टविषयितासमानाधिकरणत्वात् तजज्ञानव्यावृत्तिरिति ।
विशिष्टस्य = विशिष्टविषयकत्वस्य, असत्त्वेऽपि = वह्नथभावत्वादिना घटाद्यवगाहिभ्रमेऽसत्त्वेपि । तथाच विशिष्टविषयकत्वेन प्रतिबन्धकता न सम्भवतीति भावः।
* चन्द्रकला * यकनिश्चयविशेषणतया । सामञ्जस्यमेव निर्वक्ति अप्रतिबन्धकेति । प्रकृतानुमित्यप्रतिबन्धकं यत् जातिमान्वन्यभाववानित्यादिज्ञानं तद्विषयतावच्छेदकोभूतञ्च यत् जातित्वविशिष्ट हदत्वादिनिरूपितजातित्वावच्छिन्न हदत्वविषयितात्वं तदवच्छिन्नाभावस्येत्यर्थः । दोषात्मकेति । वन्यभावविशिष्ट-हदरूपवाधविषयकत्वसमानाधिकरणत्वादित्यर्थः। तथा च काऽसम्भव इति भावः।
तज्ज्ञानेति । अप्रतिबन्धकीभूतजातित्वादिना -हदत्वाद्यवगाहिज्ञानवारणमित्यर्थः । अत्र च यद्पावच्छिन्नविषयितात्वावच्छिन्नाभावो यादृशविशिष्टविषयकत्वसमानाधिकरणस्तद्पावच्छिन्नविषयिताशून्यत्वस्य ज्ञानविशेषणत्वं लाघवात् कथं नोक्तमिति तु सुधीभिविभावनीयमित्यास्तां विस्तरः। विशिष्टविषयकत्वेन प्रतिबन्धकत्वं न सम्भवतीति सूचयितुं भावमाह तथाचेति ।
* कलाविलासः * निश्चयविशेषणत्वोपगमात् , तादृशविषयिताशून्य त्वस्य निरुक्तवाधे सवादित्याहुः ।
अथ यद्पावच्छिन्नविषयितात्वं स्वावच्छिन्नविषयकत्वावच्छिन्न प्रतिबन्धकतावच्छेदकविषयित्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं तद्रूपावच्छिन्नविपयिताशून्यत्वमेव तादृशनिश्चये निवेश्यतां किं विशिष्टद्वयाऽघटितत्व-विशिष्टान्तराऽघटितत्वनिवेशेन ? वह्नयभाववज्जलवद्वृत्तिजलवद्धदत्वावच्छिन्नविषयकत्वावच्छिन्नज्ञानवैशिष्ट्यावच्छिन्न प्रतिबन्धकतावच्छेदकवयभाववज्जलवत्कालीनजलवद्ध्दत्वावच्छिन्नविषयित्वाऽव्यापकत्वस्य वह्नयभाववज्जलवद्वृत्तिजलवद्हृदत्वावच्छिन्नविषयितायां सत्त्वात् ।
एवं मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयकरवावच्छिन्न प्रतिबन्धकतावच्छेदकशुद्धव्यभिचारत्वावच्छिन्न विषयित्वाऽव्यापकत्वस्य मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नवियितायां सत्त्वात् ।
"Aho Shrutgyanam"