________________
कालिकाचार्यकथा ।
२१९ विक्रष्यन्ते । तत इन्द्रः [पाषाणीशालायाः) चतुरशीतिस्तम्भाया द्वारं परावृत्य गतः । साधवो विहृत्यागता द्वारमन्यत्र दृष्टा जगुः-भगवन् ! द्वारमेवं कथमभूत् ।। ततो गुरुभिरिन्द्रागमनादिस्वरूपं प्रोक्तम् । साथवो जगुः-यदीन्द्रोऽस्थास्यत् तदा वयं तं दृष्ट्वा पुण्यं विशेषतोऽकार्म ॥
प्रभावनां वितन्वानो, जिनेन्द्रशासने सदा ।
लभतेऽत्र परप्रापि, मुखं कालिकमूरिवत् ॥२२॥ तथाहि-मगधदेशे धारावासपुरे वज्रसिंहभूपस्य सुरसुन्दरी प्रियाऽभूत् । पुत्रः कालिककुमारोऽभूत् । पुत्री सरस्वती च। एकदा कालिककुमारो राजपुरुषयुतः क्रीडायै वने गतः । तत्र गुणन्धरसूरि वन्दते स्म । तत्रोपदेशः श्रुतः--
माणुस्सखित्तजाई, कुलरूवारुगमाउ बुद्धी ।
सवणग्गहणं सद्धा, संजमो लोगम्मि दुलहाई ॥२३॥ इत्यादि धर्म श्रुत्वा प्रबुद्धो मातापितरौ पर्यवसाप्य सरस्वत्या भगिन्या युतो गुरुपा कुमारो व्रतं ललौ । गुरुपाचे कालिककुमारः पठन् साहित्य-तर्क-लक्षण-छन्दोऽलङ्कार-नाटकाद्यागमशास्त्रकुशलोऽभूत् । श्रीगुणन्धरसूरिभियोग्यं मत्वा कालिकसाधोः सूरिपदं ददे । विहारं भूमण्डले कुर्वन् प्रबोधयति स्म ।
अन्यदा कालिकसूरिरुज्जयिन्यां बहिस्याने समवासार्षीत् । तदा सरस्वती साध्वी प्राप्तप्रवर्तिनीपदा पुरमध्ये यियासुर्गुरून् प्रणम्य पुरद्वारे समागात् । तदा तत्रस्यो गर्दभिल्लो गजा पुराद बहिनिस्सरन् सरस्वती सार्वी वि(प्र)लपन्ती रूपशालिनी वीक्ष्य रागातुरः स्वान्तःपुरे बलात् क्षेपयामास । गुरुणा गर्दभिल्लभूपस्य कृतं ज्ञातम् । ततो गुरुणा श्रीसंघः प्रेषितः । साध्वीयालनार्थ राजपाचे गत्वा प्राह-महासतीय मुच्यताम् । तपोधनाः तपस्विन्यो राज्ञो यस्य भूमौ तपः कुर्वन्ति, तस्य पुण्यविभागो राज्ञः समेति । तेन स्वामिन्नियं मुच्यताम् । त्वं प्रजापालोऽसि । तपस्विनां तु भूप एवाधारोऽस्ति। यतः--
नरेश्वरभुजच्छायामाश्रित्याश्रयिणः सुखम् ।
निर्भयाः सर्वकार्याणि, धर्मादीनि वितन्वते ॥२४॥ एवं श्रीसंघेनोक्तो भूपः प्राह-नाहमिमा मुञ्चे, उपदेशः स्वगृहे दीयते, भूपस्याग्रे न दीयते एवंविधः । ततः गुरुमि*पपाचे गत्वोक्तम्-इयं तपस्विनी मम भगिन्यस्ति तेन मुच्यताम् , त्वं प्रजापालोऽसि त्वमाधारस्तपस्विनाम् । ततो गुरूक्ते यदा राजा न मुश्चति सरस्वती तदा गुरवः स्वस्थानेऽभ्येत्य श्रीसंघमाकार्य प्राह-अयं दुष्टो राजा सरस्वती जहार, अस्य शिक्षा दीयते । यदि सति सामर्थे जिनमतप्रतिकूलं यो न हन्ति तस्य पाराश्चितं पापं लगति । यतः--
देव-गुरु-संघकज्जे, चुन्निज्जा चकवट्टिसिन्नं पि ।
कुविओ मुणी महापा, पुलायलद्धीइ संपन्नो ॥२५॥ इत्याद्युक्त्वा स्ववेषं साधूनां समर्म्य श्रीसंघ मुत्कलाप्य शककूले गतः । तत्र स्वकलां दर्शयित्वा राज्ञो मिलितः । सुमाषितैः भूपं रजयामास । कालिकसूरिणा रञ्जितो राजा जगौ-भवतो यत् कार्य विद्यते तनिगद्यताम् । गुरुः प्राहअक्सरे कथयिष्यते।
एकदा शकभूपतेः सभायामुपविष्टस्य साधनसिंहभूपेन कच्चोलकं क्षुरीयुतं प्रेषितं समागतम् , तदा राजा कृष्णमुखो
"Aho Shrutgyanam"