________________
[२३] उपाध्याय श्री समय सुन्दरगणिविरचिता
कालिकाचार्यकथा |
[ रचनासंवत् १६६६ ]
प्रणम्य श्रीगुरुं गद्य-पद्यवार्ताभिरदद्भुतम् । कालिकाचार्य संबन्धं, वक्ष्येऽहं शिष्यहेतवे ॥१॥
rs पूर्व स्थविरावली व्याख्याता, तत्र श्रीकालिकाचार्योऽपि महाप्रभावकः स्थविरो बभूव तेन तस्यापि संबन्धः कथ्यते—
तत्र कालिकाचार्याः त्रयः स्थविरा जाताः । तन्मध्ये एकः श्रीकालिकाचार्यः श्रीमहावीरदेवनिर्वाणात् सं० ३७६ वर्षे श्रीश्यामाचार्यनामा श्रीप्रज्ञापनासूत्रकर्ता पूर्वविदां वंशे श्री सौधर्मस्वामित आरभ्य त्रयोविंशतितमः पुरुषो जातः } येन ब्राह्मणीभूतसौधर्मेन्द्रात्रे निगोदविचारः कथितः । अत्र केचिद् वदन्ति---
:
सिरिवीर जिणंदाओ, तिभिसए वरिसबीसवोळीणे ।
कालयसूरी जाओ, सको पडिबोहिओ जेण ॥२॥
इति गाथादर्शनात् । ३२० वर्षे निगोद विचारकथकः श्रीकालिकाचार्यो जातः । केचिद् वदन्ति
तिसय- पणवीस इंदो, चउसय-विपन्न सरस्सई गहिया ।
नवसय - विनवs वीरा, चउत्थिए जो काळगायरिया || ३ ||
इति निर्मूलप्रायगाथादर्शनात् ३२५ वर्षे जातः ॥
केचिद् वदन्ति -- चतुर्थ्यां पर्युषणापर्वप्रवर्त्तक एव निगोदविचारव्याख्याता, यथाश्रुतं बहुश्रुता विदन्तीति (१) । द्वितीयस्तु कालिकाचार्यः श्रीवीरनिर्वाणात् सं० ४५३ वर्षे सरस्वती भ्राता गर्दमिहोच्छेदको बलमित्र - भानुमित्रनृपयोच मातुलो जातः । कुत्रापि तुर्यश्चतुथ्यीं पर्युषणापर्वप्रवर्त्तकः कालिकाचार्यः स तयोर्मातुलः प्रोक्तोऽस्ति, यद् अस्ति तत् प्रमाणम् (२) । तृतीयस्तु श्रीकालिकाचार्यः श्रीवीरनिर्वाणात सं०९९३ वर्षे श्रीविक्रमसंवत्सराच सं० ५२३ वर्षे जातः । येन श्रीवीरवाक्यात् पर्युषणापर्व भाद्रपदसुदिपञ्चमीत: चतुर्थ्यामानीतम् (३) । एवं श्रीकालिकाचार्याः त्रयः पृथक् पृथग् जाताः, परं नामसादृश्याद द्वयोस्त्रे तयोः कालिकाचार्थयोः एकीभूतैव संलग्ना कथा कथ्यते । अतो अत्र पूर्व गर्द भिलोच्छेदक श्रीकालिकाचार्यसंबन्धः कथ्यते—
अस्मिन् जम्बुद्वीपे भरतक्षेत्रे घारावासं नाम नगरमभूत् । परं तन्नगरं कीदृशमस्ति । यस्मिन् नगरे अङ्गदेश -वन्नदेश-मिलनदेश-कलिङ्गदेश- वराङ्गदेश-प्रयागदेश-- सुयागदेश-मुरुण्डदेश- पुलिन्ददेश- सुरेन्द्रदेश- समुद्रदेश -चित्रकूटदेश- लाटदेश-घाटदेश- नाट्यदेश - विराटदेश के लिवाट देश - भारदेश-वाटदेश- कुण्टदेश- बुटदेशघोडादेश-घाटदेश--मेदपाटदेश-मगधदेश- सोरठदेश- कच्छदेश- गूर्जरदेश- मालवदेश-काश्मीरदेश- काबलिदेश-भुटं तदेश- बदकसानदेश- बंगालदेश- कोकणदेश - पञ्चभर्तृदेश-श्रीराज्यदेश- परतकालदेश- हबसीदेश- फिरङ्गीदेश-
"Aho Shrutgyanam"