________________
[२१] श्रीदेवकलोलमुनिविरचिता कालिकाचार्यकथा।
[ रचनासंवत् १५५]
स्वकीयं गुरुमानम्य, पुनः श्रीश्रुतदेवताम् । तयोः प्रसादमासाघ, कालिकाचार्य(कार्य)कयां ब्रुवे ॥१॥ अस्तीह भारते वर्षे, धारावासं पुरं महत् । वापी-कूप-प्रपाऽऽराम-सरोवरविराजितम् ॥२॥ श्रीमहेभ्य-महाराज-समाजसमलङ्कृतः । वैरिसिंघो(हो) नृपस्तत्र, वैरिवारनिवारणः ॥३॥ तस्य पत्नी सती रम्भासुन्दरी सुरसुन्दरी । सचरित्रस्तयो पुत्रः, संजातः कालिकाभिधः ॥४॥ विचाराऽऽचारचतुरः, सुभगो विनयी नयी ।। पियंवदो नाऽभिमानी, प्रजापालोऽतिसाहसी ॥५॥ सोऽन्यदा निर्गतो वाह्योधाने क्रीडितुमादरात् । निर्विनो(प्णो)ऽभूदसौ चाह्यतुरङ्गाँस्त्वरगान् नृपः ॥६॥ सहकारतरोमूले, निविष्टो राजमूः स्वयम् । पश्यनितस्ततः स्वैरं, सोऽश्रू(नौ)पीन्मधुरध्वनिम् ॥७॥ सेवकं प्रेक्ष(ष्य) विज्ञाय, गत्वा तत्र समुत्सुकः । मुनिभिः भविकैः सार्द, ददर्श स गुरुं तदा ॥८॥ स तं प्रदक्षिणीकृत्योपविश्योचितभूतलम् । श्रीमद्गुणन्धराऽऽचार्यदेशनामशृणोदिति ॥९॥ असारः सर्वसंसारः, कोऽपि फस्य न वल्लमः । पिता माता स्वसा भ्राताऽऽसन् ते ते स्वार्थवल्लभाः ॥१०॥ इत्येतस्य गुरोर्वांचं, श्रुत्वा वैराग्यमाप्तवान् । पितॄनापृच्छय तत्कालं, कुमारो व्रतमग्रहीद ॥११॥ कालेन कियता विद्वान् , संजातः कालिको यतिः । आयः गुणन्धराचार्य:, स्वपदे स्थापितो मुदा ॥१२॥ ततः श्रीकालिकाचार्याः, साधु-साध्वी समन्विताः । विजई (इ.) प्रतिबोधार्थः(थ) मुजेणी नगरी प्रति ॥१३॥
७
"Aho Shrutgyanam"