________________
श्रीधर्मघोषसूरिविरचिता क्षेत्रेषु सप्तस्वपि भव्यभावाद् (द), स्वद्रव्यबीजं विपुलं मुदेति । या चापयामास परत्रलोके, संख्याऽतिगश्रीभरवृद्धिहेतोः ॥३९॥ तत्रैवाऽयो पत्तने श्रीगुरूणां, तेषां भव्यमाथितस्वस्तरूणाम् ।
देमाई: सा श्राविकवर्गमुख्याऽश्रौषीद(द) हर्षाद् देशनावाणिमित्यम् ॥४०॥ तथाहि
न ते नरा दुर्गतिमाप्नुवन्ति, न भूकतां नैव जडस्वभावम् । न चान्धतां बुद्धिविहीनतां च, ये लेखयन्तीह जिनस्य वाक्यम् ॥४१॥ लेखयन्ति नरा धन्या ये जिनाऽऽगमपुस्तकम् । ते सर्ववाङ्मयं ज्ञात्वा, सिद्धिं यान्ति न संशयः ॥४२॥ पठति पाठयते पठतामसी, वसन-भोजन-पुस्तक-वस्तुभिः । मतिदिनं कुरुते य उपग्रहं, स इह सर्वविदेव भवेन्नरः ॥४३॥ विशेषतः श्रीजिनवीरभाषितं, श्रीकल्पसिद्धान्तममुं समुद्यताः । ये लेखयन्तीह भवन्ति ते ध्रुवं, महोदयाऽऽनन्दरमानिरन्तरम् ॥४४|| निशम्य तेषामिति देशनागिरं, चिरं किरन्तीमुदयं महैनसाम् । विशेषतः पुस्तकलेखनादिके, श्रीधर्मकृत्येऽजनि सा परायणा ॥४५॥ श्रीस्तम्भतीर्थनगरे प्रवरे ततश्च,
श्रीकण्ठनेत्र-मुनि -विश्वमिते च वर्षे (१४७३)। श्रेयाश्रिये बहुतरद्रविणव्ययेन,
श्रीकल्पपुस्तकमिमं समलीलिखत् सा ॥४६॥ यावद् बिभर्ति धरणी शिरसा फणीन्द्रो, __यावच्च चन्द्रतरणी उदितोऽत्र विश्वे । तावद् विशारदवरैरतिवाच्यमाना, .
श्रीकल्पपुस्तकवरो जयतादिहैषः ॥४७॥ लिखितः सोमसिंहेन, देईयाकेन चित्रितः । आफल्पं नन्दतादेष श्रीकल्पः सपशस्तिकः ॥१८॥
. इति श्रीकल्पप्रशस्तिः समाप्ता ॥
"Aho Shrutgyanam"