________________
मूलशुद्धिटीकाकारप्रशस्तिः
किन
कालिकाचार्यकथा |
आसीचन्द्रकुळाम्बरैकशशिनि श्री पूर्णतलीयके, गच्छे दुर्धरशीलधारणसरैः संपूरिते संयतेः । निःसम्बन्धविहारहारिचरितश्चञ्चचरित्रः शुचिः
श्रीसूरिर्मलवर्जितोर्जितमतिश्वावदेवाभिधः ॥ १॥ सच्छिष्यः श्रीदत्तो, गणिरभवत् सर्वसच्चसमचित्तः । नरनायकादिवित्तः, सट्टतो वित्तनिर्मुक्तः ||२|| सूरिस्ततोऽभूद् गुणरत्नसिन्धुः, श्रीमान् यशोभद्र इतीदशः । विज्ञान क्षितीशैर्नतपादपद्मः, सनैष्ठिको निर्मलशीलधारी ॥३॥ नीरोगोऽपि त्रिधानतो निजतचं (तु) संलिख्य सर्वादरात्, सर्वाहारविवर्जनादनशनं कृत्वोज्जयन्ते गिरौ । arastra hat sयोदशदिनान्याश्चर्यहेतुर्जने,
शस्यं पूर्वमुनीश्वरीयचरितं संदर्शयामास यः ||४|| च्यो भूरिवुद्धिर्मुनिवरनिकरैः सेवितः सर्वकालं, सच्छास्त्रार्थप्रबन्धप्रवरवितरणालब्धविद्वत्सुकीर्तिः । येनेदं स्थानकानां विरचितमनघं सूत्रमत्यन्तरम्यं, श्रीमत्प्रद्युम्न सूरिर्जितमदनभटोऽभूत् सतामग्रगामी ||५|| राद्धान्त - तर्क - साहित्य - शब्दशास्त्रविशारदः । निरालम्बविहारी च यः शमाम्धुमहोदधिः ॥६॥ सिद्धान्तदुर्गम महोदधिपारगामी, कन्दर्पदर्पदल नोऽनधकीर्तियुक्तः । दान्ताऽतिदुर्दमहषीकमहातुरङ्गः,
श्रीमांस्ततः समभवद् गुणसेणसूरिः ॥७॥ जगत्यपि कृतार्य, सुराणामपि दुर्लभम् । निशाकरकराकारं, चारित्रं यस्य राजते ||८|| तच्चरणरेणुकल्पः सूरिश्रीदेवचन्द्रसंज्ञोऽभूत् ।
यो गुरुभक्तस्तद्विभषिणो विनियुक्तः ॥ ९॥
श्रीमदभयदेवाभिधसूरेय घुसहोदरः स इह | स्थानकहतिं चक्रे सूरिः श्रीदेवचन्द्रारूयः ॥ १० ॥ मतिविनापि मया, गुरुभक्तिप्रेरितेन रचितेयम् । तस्मादियं विशोध्या, विद्वद्भिर्मयि कृपां कृत्वा ॥११॥
"Aho Shrutgyanam"
२३