________________
ऽङ्कः ]
मोहराजपराजयम् ।
राजा - ( श्रुत्वा सखेदमात्मगतं ) नूनमयं कुररीरवानुकारी करुणः कयोरपि वनितयोः परिदेवितध्वनिः । ( प्रकाश ) भद्राः ! कयोः पुनर्नितम्बिन्योरयमार्त्तस्वरः श्रूयमाणः कृन्तति हृन्मर्माणि ? ।
-
वणिजः — देव ! प्रथमा गुणश्रीर्नाम कुबेरस्वामिनः सवित्री, परा तु कमलश्रीर्नाम प्रेयसी ।
५९
राजा - इहानयत द्वे अपि ।
वणिजः -- ( सभयमात्मगतं ) नियोगिनामविसर्जनादनयोश्वाह्वानान्नूनं म हान् किमप्यन्वेष्टुमद्याप्याक्षेपः क्षमापतेः । ( प्रकाशं ) यदाज्ञापयति देवः । ( इति निष्क्रामन्ति । )
राजा - (विमृश्य ) भोः ! तिष्ठत तावत् ।
वणिजः -- ( प्रतिनिवृत्य ) किमादिशति देवः ? ।
राजा - येयं कुबेरजननी तामानयत । या चेयं तत्पत्नी सा तिष्ठतु । अद्रष्टव्याः खलु परपुरन्धयः ।
वणिजः - (निष्क्रम्य प्रविश्य च ) देव ! असौ कुबेरस्वामिमाता । राजा - ( ससंभ्रमं ) अम्ब ! इदमासनमास्यताम् । ( गुणश्रीस्तथाकरोति । )
राजा
- अम्ब! किमेवमविवेकिनीव शोकेन विक्लवासि ? । यतःआकीटाद्यावदिन्द्रं मरणमसुमतां निश्चितं बान्धवानां सम्बन्धश्चैकवृक्षोषितबहुविहगव्यूह साङ्गत्यतुल्यः । प्रत्यावृत्तिर्भूतस्योपलतलनिहितप्लुष्टबीजप्ररोह
प्राया प्राप्येत शोकात्तदद्यमकुशलैः क्लेशमात्मा मुधैव ॥ ४५ ॥ गुणश्रीः - ( १ ) जाद ! जाणामि सव्वं परं पुत्तगस्स मरणदुक्खसंभवेण सोगेण विसुमरिद म्हि ।
राजा
अविनश्वरं शरीरं येषां भुवने यशोमयं स्फुरति । ते जीवन्ति मृता अपि पुण्यात्मानो न शोच्याश्च ॥ ४६ ॥ ( १ ) जात ! जानामि सर्वे परं पुत्रकस्य मरणदुःखसंभवेन शोकेन विस्मृतास्मि ।
"Aho Shrutgyanam"