________________
S:]
मोहराजपराजयम् । विदूषकः- (१) जयदु जयदु पियवयस्सो । राजा-इमासनमास्यताम् ।
(विदूषकस्तथा करोति ।) राजा-सखे ! हृष्ट इव दृश्यसे । विदूषकः--(२) भो ! दिट्ठिया वद्धसि विवेयदुहिदालाभेण । राजा-(निःश्वस्य ) वयस्य ! देव्यां प्रतिकूलायां कुत एतत् ? । विदूषकः-(३) भो ! देवी य्येव सव्वं संपाडिस्सदि । राजा--( सवितक) कथमिव ?।
(विदूषको राज्ञः कर्णे एवमेव ! ) राजा-(सोल्लासं) अहो ! मन्त्रिणस्तृणीकृतबृहस्पतिप्रतिभाविलासस्य सर्वतोमुखी शेमुषी । तथाहि
कुर्वाणोऽनुनयं न नाम गणितः कोपाद्ययाहं तदा
त्यक्त्वा मामदया च पादपतितं या तर्जयन्ती गता। सायास्यत्सहसा प्रकृत्यसहना देवी प्रसत्तिं कथं ?
मन्त्री नीतिमिमां नितान्तनिपुणो व्यापारयिष्यन्न चेत् ॥९॥ अपि च
देव्या दिव्यवचः पञ्चविधिना व्यध्यापि कोपानल
स्तस्या एव मुखाद्विवेकनृपतिः पुत्रीमथायाच्यत। तस्मादेव पणक्रमः प्रकटितस्तत्पूरणे प्रेरितो
युत्त्याहं तदनेन मत्प्रियकृते किं किं न विस्पन्दितम् ? ॥ १० ॥ विदूषकः-(४) भो! अमचनीदिरहस्सं किं पुणो पुणो परावत्तेसि?णं कदाइ कोइ इमं सुणिय देवीए कहिज्ज ता धमियकणयं फुकाए हारविदं हेज्ज।
(१) जयतु जयतु प्रियवयस्यः । (२) भोः ! दिष्ट्या वर्षसे विवेकदुहितलाभेन । (३) भोः ! देव्येव सर्व संपादयिष्यति ।
(४) भोः ! अमात्यनीतिरहस्यं किं पुनः पुनः परावर्त्तयसे ?। ननु कदापि कोऽपि श्रुत्वा देव्यै कथयेत् ततो धमातकनकं फूत्कृत्या नाशितं भवेत् ।
१B & C तो. २ B&C होज,
"Aho Shrutgyanam"