________________
SE: 1
मोहराजपराजयम् ।
नोद्गमिष्यद्राहुर्यदि नभसि भयङ्करास्यकुहरोऽसौ । तत्किं शशभृत्प्रतिमा मम शरणमुपैष्यदमृतमयी ? ॥ ४५ ॥ अपि च
अनदिष्यद्यदि न वने सिंही वित्रासितैणसङ्घातम् । तत्किं हरिणीचक्षुर्विभ्रमशर्माऽभविष्यन्मे ? ॥ ४६ ॥
किश्व
अकरिष्यद्यदि न विधिर्बिसिनों संचारिणीमिमां विपिने । तत्किं मधुकरललितान्यस्था वदनेऽभविष्यन्मे ? ॥ ४७ ॥ रौद्रता - (१) भट्टिणि ! सुदं अन्नुत्तिगूढाभिप्पायं भट्टिणो वयणं ? । राज्यश्रीः - (२) हेला ! सुदं ज्जेव । जदो
अहिरमदि रायहंसो बगीसु मुत्तूण जच्चनिजहंसिं । तस्स चिय सो दोसो वसविरुद्धं कुणन्तस्स ॥ ४८ ॥ रौद्रता - (३) भट्टिणि ! अदो वरं अहं पि सोदुमक्खमा । ता का गदी ? | राज्यश्रीः- - ( ४ ) हला ! एहि जेण हारलयाए बंधिय लीलाकमलनालेण निद्दयं ताडेमि इमं सदं ।
रौद्रता - (५) एवं भोदु ।
( उभे सहसोपसर्पतः । )
विदूषकः- विलोक्य ) (६) भो वयस्स ! एसा कुडा चंडि व्व एदि देवी । ता नस्सिस्सं । ( इति त्वरितपदं निष्क्रान्तः । )
( १ ) भट्टिनि ! श्रुतमन्योक्तिगूढाभिप्रायं भर्तुर्वचनम् ? | (२) हले ! श्रुतमेव । यतः-
३७
अभिरमते राजहंसो वकीषु मुक्त्वा जात्यनिजहंसीम् । तस्यैव स दोषो वंशविरुद्धं कुर्वाणस्य ||
(३) भट्टिनि ! अतः परमहमपि श्रोतुमक्षमा । ततः का गतिः ? ।
( ४ ) हले ! एहि येन हारलतया बद्धा लीलांकमलनालेन निर्दयं ताडयामीमं शठम् । (५) एवं भवतु ।
(६) भो वयस्य ! एषा क्रुद्धा चण्डीवैति देवी । ततो नङ्क्षयामि ।
1
१ B & C अनोति २ B & C ला हला !
"Aho Shrutgyanam"