________________
मन्त्रियशःपालविरचितं
[द्वितीयोसोमता-(स्वगतं) (१) अदिसएण बंधे पडिस्सदि । (प्रकाशं ) भोदु दाव। (समीपमुपसृत्यावलोक्य च) सहि! गाढयरो बंधो नाहं मोक्खं कादं सक्केमि। जदि परं भद्दा करिस्सदि।
कृपासुन्दरी-(२) सहि सोमदे ! असंबद्धपलाविणि! अवेहि । राजा-(सविषादं)
पायं पायं तस्या लावण्यं शशभृतेव घटितायाः।
विरमति न मम दृशस्तृट् तदसौ ज्वरितेव संवृत्ता ॥४४॥ विदूषकः-(सहासं) (३) पियवयस्स ! सच्छन्दं दाव चिट्ठ जाव तुह पणयिणी देवी इत्थ न एदि ।
(ततः प्रविशति देवी राज्यश्रीः रौद्रता च।) राज्यश्रीः-(साटोपं) (४) हला रुद्ददे ! अवि नाम अवितहमेदं जं तुमं कधेसि ?।
रौद्रता-(५) भट्टिणि! किमन्नधा तुम्ह निवेदीयदि ? । राज्यश्रीः-(६) ता पुणो वि कधेसु एदं ।
रौद्रता-(७) जं देवी आणवेदि । जणमणवित्तिणामनयरीनरिंदो विवेयचन्दो नाम संपदि इत्थ समागदो चिट्ठदि त्ति देवीए विदिदं जेव ।
राज्यश्रीः -(८) अध किं ।
(१) अतिशयेन बन्धे पतिष्यति । भवतु तावत् । सखि ! गाढतरो बन्यो नाहं मोक्षं कर्तु शक्नोमि । यदि परं भर्ती करिष्यति ।
(२) सखि सोमते! असंबद्धप्रलापिनि! अपैहि । (३) प्रियवयस्य ! स्वच्छन्दं तावत्तिष्ठ यावत्तव प्रणयिनी देवी अत्र नैति । (४) हला रौद्रते! अपि नामावितथमेतत्त्वं कथयसि ?। (५) भट्टिनि! किमन्यथा तव निवेद्यते । (६) तत् पुनरपि कथयैतत् ।
(७) यद्देवी आज्ञापयति । जनमनोवृत्तिनामनगरीनरेन्द्रो विवेकचन्द्रो नाम संप्रत्यत्र समागतस्तिष्ठतीति देन्या विदितमेव ।
(८) अथ किम् ?।
"Aho Shrutgyanam'