________________
૨૮ मन्त्रियशःपालविरचितं
[द्वितीयो राजा-(सम्यग् निरूप्य स्वगतं ) अयि! सैव कृपासुन्दरी।यया मम दृष्टिचकोरिकाया निजवदनेन्दुकिरणैः कारितः पारणविधिः । सांप्रतं च 'मधुकरराजविघटितध्यानकलश: इतिवचनेन संभावयति माम् । तदृदय ! विधेहि लास्यम् । भज च प्रमोदसंदोहम् । यतः
चेतः! प्ररूढो हृदयालवाले मनोरथः पादपसत्तमो यः।
स वल्लभावक्रविलोकनेन प्रकाममिद्धः फलितः फलेन ॥ ३१॥ (पुनः साभिलाषमवलोक्य)
अस्याः प्रियाया वदनेन्दुबिम्बे लावण्यपङ्के मम दृष्टिधेनुः ।
मना तथा भग्नपदेव मन्दा नोत्थातुमीशा क्षणमेकमेषा ॥ ३२ ॥ सोमता--(साक्षेपं ) (१) सहि ! गुरुयणस्स आणाभंगे जं पावं होदि तं कस्स ?।
कृपासुन्दरी-(२) सहि ! मज्झ । सोमता-(३) जइ एवं ता झाणकलसेण सेचणयं कुण । (कृपासुन्दरी सभयं हृदि नेत्रे विन्यस्य तरुं प्रति ध्यानं नाटयति ।) राजा-(ससंभ्रमं) कीदृशो ध्यानकलश इति निरीक्ष्य सविषादम्,
पुण्यस्त्वमेव तरुवर ! हृद्यस्थं त्वां विलोकते यदियम् ।
मामेव हि निर्भाग्यं श्वपचमिव स्पृशति नो दृष्टया ॥ ३३ ॥ कृपासुन्दरी--(ध्यानं पारयित्वा) (४) एसो साही अहिसित्तो बहिणि ! झिज्जए कीस ?।
सोमता-(विलोक्य स्वगतं ) (५) कहमेयं पुरिसरयणं आहिविडंबिद पिच्छिऊण एवंविहं पियसही जंपदि ? । एयं पुण न संभवदि जदो एसा पुरिसविहेसिणी। तथा च
(१) सखि ! गुरुजनस्याज्ञाभङ्गे यत्पापं भवति तत्कस्य ? । (२) सखि ! मम । (३) यद्येवं ततो ध्यानकलशेन सेचनकं कुरु । (४) एष शाखी अभिषिक्तो भगिनि ! क्षीयते कस्मात् ।
(५) कथमेतं पुरुषरत्नमाधिविडम्बितं प्रेक्ष्य एवंविधं प्रियसखी कथयति ? । एतत्पुनर्न सं. भवति यत एषा पुरुषविद्वेषिणी
१B&C एसो उ सा.
"Aho Shrutgyanam"