________________
मन्त्रियशःपालविरचितं मोहराजपराजयम् ।
00000000 अमरविसरशीर्षक्रीडदापीडरत्न
प्रचुररुचिररोचिश्चामरैश्चम्ब्यपादम् । रमयति शिवलक्ष्मीनिर्मलं चिन्मयं यं
स जयति वृषलक्ष्मा नाभिजन्मा जिनेन्द्रः ॥ १॥ उत्तंसयति मुक्तिं यः सूक्तिमर्थ इवोज्वलः।
नतोऽस्मि तस्मै श्रीपार्श्वस्वामिने परमात्मने ॥२॥ अपि च---
यः संरम्भभवलिस्थपुटितं चक्रे न भालस्थलं । भ्रूभङ्गं न मुहुर्बबन्ध नयने निन्ये न ताम्रद्युतिम् । नौचैर्वाचमुवाच वर्म न दधे दर्रे न चास्त्रं करे व्यामोहं नृपमेवमेव जितवान् वीरः स वस्त्रायताम् ॥ ३॥
(नान्द्यन्ते) सूत्रधार:-( सानन्दं परिक्रम्य ) कथमद्यापि चिरयति मम प्राणेश्वरी ?।
. (प्रविश्य) नटी--( सविनयं ) (१) आणवेदु अजउत्तो को निओगो अणुचिट्ठीयदु त्ति।
सूत्रधारः- साक्षेप) कथमजनि भवत्याः कालक्षेपः ?। (१) आशापयतु आर्यपुत्रः को नियोगोऽनुष्ठीयतामिति । १B & C भयो. २ B & C नियोगो.
"Aho Shrutgyanam"