________________
मोहराजपराजयम् ।
पञ्चमोऽङ्कः ।
(ततः प्रविशति विवेकचन्द्रः । )
विवेकचन्द्रः -- ( सानन्दं परिक्रम्य ) अहो ! निश्चिन्तोऽस्मि चोलुक्यकुलनभस्तलालङ्कारमणिना सकलभूपालमौलिमण्डलावतंसायमानचरणतामरसेन
ऽङ्कः ]
त्रिभुवनश्रीकुचकलशमुक्तालतायमानयशःप्रसरेण महाराजाधिराजेन श्रीकुमारपालदेवेन सह मम सुतायाः कृपासुन्दर्याः पाणिग्रहणमहोत्सवेन । अपरं च, वत्साया राज्यश्रियः फलितं प्रार्थनाद्रुमेण | ( इत्यानन्दं नाटयित्वा ) अहो ! निःशेषव्यसननिर्वासनेन ममेच्छापीयूषतरङ्गिणी तरङ्गिता । अपरं च रुदतीघनत्यागामृताभिषेकेणाङ्कुरिता मे क्षेत्रावनिः । यतः -
जज्ञे यो भुवि चक्रवर्त्तिनृपतिव्यूहः समूहो मह:सारस्याखिलराज्यनीतिकुशलो ग्रामो गुणानां परम् । स व्यामोहनरेन्द्रशासनमणीमुत्तंसतामानयं
चक्रे नैतदिति त्रिलोकविजयी सोऽयं कृपावल्लभः ॥ १ ॥ ( पुनर्विमृश्य )
अन्तरेण जिनाधीशं कश्छेत्तुं मोहमीश्वरः ? | असौ तु तत्पदाम्भोजे भृङ्गतीति ध्रुवं जयी ॥ २ ॥
१११
( पुनः सोल्लास ) अहो ! मामकीनमपि कार्य निष्पन्नप्रायं संभाव्यते । यतो
sस्य महाराजस्य मोहराजं पराजेतुं कार्यशेषः । तथा च
निन्ये राज्यश्रियं तुष्टिं परिणिन्ये कृपां प्रियाम् । चक्रे च यत्पुरं पुण्यं तन्मोहं जितवानसौ ॥ ३ ॥
( पुनः सौत्सुक्यं) तं राजकुञ्जरमवलोकयितुमुत्कण्ठते मे मनः । यतःसरोरुहं किं न सहस्ररशिंम ? सुधाकरं किं न चकोरलोकः ? |
जिनक्रमान् किं नहि भव्यजन्तुः समीहते शर्मविभूतिहेतोः ? ॥ ४ ॥
( आकाशे )
किं ब्रूषे ? | यत्सर्वोत्तम ! अपरान्नरेन्द्रान् परित्यज्य कथं मानवेश्वरममुं द्रष्टुमीहसे ? | नन्वेवं, यतः
"Aho Shrutgyanam"