________________
१०६
मन्त्रियशः पालविरचितं
पापात्मकचौर्यरते ! त्वदुपासनगलितचित्तपावित्र्यम् । दृष्ट्वा पाण्डोः सूनून राज्यश्रीरत्यजत्पुण्या ॥ ३० ॥ अपि च
दुर्गतितीर्थतपस्विन् ! तव सेवां कुर्वता नलनृपेण । त्यक्ता हा ! गुणवत्यपि पत्नी हा ! हारितं राज्यम् ॥ ३१ ॥ पुण्येनैवोपस्थितमिह राज्यं शूद्रकस्य ननु विद्मः । त्वं पुनरात्मनि महिमानमेनमारोप्य सोऽसि ॥ ३२ ॥ अपि च-
तावत्सत्यं भविनां यावत्ते नास्ति सङ्गतं नूनम् । गङ्गाजलमपि यस्मान्न पावनं श्वपचपात्रस्थम् ॥ ३३ ॥ द्यूतकुमारः- - ( खगतं ) ( ? ) किं भणिस्सं ? |
जाङ्गलकः—( २ ) देव ! गुज्जरनरेसर ! परक्कमक्कतसायं भरीभूवाल ! किवालुचित्त ! किं मज्झ संभाविदं दूसणं जेण एवं विडंबिज्जामि ? | राजा- -( सजुगुप्सं) भो दाण्डपाशिक ! नास्य वदनोद्गारगन्धमधिसोढुं प्रौढोऽस्मि । तदेनं तावद्दवीयांसं कुरु ।
1
( दाण्डपाशिकस्तथाकरोति । )
जाङ्गलकः- ( ३ ) देव ! अवधारिदा मह भणिदी ? | राजा-आः सर्वाधम ! त्वमप्यात्मानमदूषणं समर्थयसे ? | जाङ्गलकः– ( ४ ) को इत्थ संदेहो ? | जदो
जदि नाम सदोसोऽहं तो पुव्वनिवेहि सेविओ कह णु ? । अह अपवित्तो ता कह पिदराणं बहुमदो जादो ? ॥ ३४ ॥
( १ ) किं भणिष्ये ? |
( २ ) देव ! गूर्जरनरेश्वर ! पराक्रमाक्रान्तशाकम्भरी भूपाल ! कृपालुचित्त ! किं मम संभावितं दूषणं येनैवं विडम्ब्ये ? |
( ३ ) देव ! अवधारिता मम भणिति: ? ।
( ४ ) कोऽत्र संदेहः ? | यतः -
[ चतुर्थी
यदि नाम सदोषोऽहं तत्पूर्वनृपैः सेवितः कथं नु ? | अथापवित्रस्तत्कथं पितॄणां बहुमतो जातः १ ॥
१ B & C ता.
"Aho Shrutgyanam"