________________
निवेदयन्तु इत्युक्ते राज्ञा सूरयः हे परमार्हत ! विचारचतुर्मुख ! श्रीकुमारपाल ! सूक्ष्माभोगेन परिभावनीयमेतन्निरूप्यमाणम् । तथाहि धर्मनरेन्द्रस्य सदागमो मन्त्री सदासद्बुद्धिदानदक्षोऽपरावर्त्यञ्चापरैर्नृपान्तरैः । विवेकचन्द्रः सेनाध्यक्षो विपक्षक्षोददीक्षितः । शुभाध्यवसायः परिचारकः । सम्यक्त्वयमनियमाद्याः भटाः । किमुच्यते बहु, राजन् ! धीरशान्तः श्रीधर्मभूमीन्द्रः । अथ मोहनृपतेः कदागमो मन्त्री सर्वदुर्बुद्धिमूलमन्दिरम् | अज्ञानराशिः सेनानीः । मिथ्यात्वदुरध्यवसाया भटाः । धीरोद्धतश्चायं मोहः । एवं सति संप्रति प्रोच्छलत्प्रबल दुष्टेष्टविघातक कलिकालसहायिकरालविलसितैः समजनि समुज्जीवितो मोहराजः । प्रवर्तितं सर्वत्र स्वाज्ञैश्वर्यम् । पराभूय निर्वासितः श्रीधर्मनृपतिः सपरिकरः । राजा - किमप्रतः ? | सूरिः- भ्रामं भ्रामं सर्वत्र आन्तः कापि स्थितिमलभमानः साम्प्रतं श्रीगुर्जरनाथधरित्रीशिरोमणीयिते श्रीमति पत्तनमहास्थानेऽस्मदा श्रममाश्रित्य मनाक् स्वस्थी - भवन् समयाकरोति श्रीधर्मभूभुग् । श्रीचौलुक्य ! तव सौराज्याभ्युदयेन तु संजातबलोत्सर्पणः स्वं प्रौढिमानमासादयिष्यत्येवेति मन्यामहे त्वामेव शरणागतवज्रपञ्जरं राजानं इति सूरीन्दुवचोऽमृतैः पुनर्नवीभवन् कृपासुन्दरीप्रौढि श्रुत्वा संजातसहस्रगुणदृढानुरागः कदा मयेयं परिणेतव्या इति चिन्तावशितात्मा गुरून्नत्वा स्वभवनमलङ्कृतवान् । तदनु---
सा वाचि सा च हृदि सा पथि सा च धान्नि,
सा व्योनि सा पयसि सा भुवि सा च दिक्षु | स्वप्नेऽपि सा शशिमुखी परिवर्तते मे,
किं वाऽपरैरजनि तन्मयमेव विश्वम् ॥
इति पठन् कृपासुन्दरीविरहपरवशोऽयं भूप इति ज्ञातः श्रीउदयनादिमन्त्रिमण्डलेन । ज्ञापितवायं वृत्तान्तः श्रीगुरुभ्यः । आकारितः शालायां भूपालः परिवारश्च मं० उदयनादिः । कथितं गुरुणा राजन् ! प्रेष्यते कश्चिदाप्तः प्रधानपुरुषः श्रीधर्मनरेन्द्रपार्श्वे । मार्ग्यते धर्मनन्दिनी । सत्कार्य महादरेण काऽपि सुस्थाने निवारयते महोत्सव पूर्वमानीय श्रीधर्मः । महान्तो हि स्वपदभ्रष्टा निमजन्ति लज्जामहाम्बुधौ नापि कुर्वन्ति महद्भिः सह संबन्धादि, यदेतैः किमपि गृहीतं भावीति चकित दुर्जनवचोनिचयेषु । तत एवं कृते प्रीतो दास्यति कृपासुन्दरीं भवते श्रीधर्मनृपः इत्यादि । स्वपरिवारेण सह पर्यालोच्य तेन प्रहितो मतिप्रकर्षः प्रधानाप्तपूरुषः । गतोऽसौ श्रीहेमाचार्याश्रमनिवासिनः श्रीधर्मभूपस्य पार्श्वे । निवेदितश्च कृपासुन्दरी दर्शनादिवृत्तान्तः । तदनु मार्गिता धर्मसुता । ज्ञापिताः श्री चौलुक्यगुणा एवम् । यथा-
सम्यक्त्वधारी करुणैक सिन्धुर्बन्धुर्जनानां परमार्हतश्च । चातुर्यगाम्भीर्यमुखैर्गुणौघैरगाधदेहो भुवनाधिवीरः ॥ १ ॥
इति मतिप्रकर्षेणोक्ते श्रीधर्मभूपः प्राह, सत्यमेतद् भो मतिप्रकर्ष ! किमुच्यते श्री चौलुक्यचन्द्रस्य लोकोत्तरगुणसंपदभिरामस्य योग्यता । परमेषा पुरुषद्वेषिणी स्वभावतो दुष्पूरपणबन्धप्रतिज्ञातपाणिग्रहा, तेन मनाग् मनो दोलायते ।
मतिप्रकर्ष:8 - कः पणबन्धः ? इति श्रोतुमिच्छामि ।
"Aho Shrutgyanam"