SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ : ३५८ : सम्मतितत्त्वसोपाने [ चत्वारिंशम् ध्वनि सञ्चरतो नाभीष्टस्थानप्राप्तिः येन यः स्वीकृतग्रन्थः सोऽध्वनि सञ्चरन्नाभीष्टस्थानप्राप्तिमान् , यथा चौराद्युपप्लुते पथि सञ्चरन्नसहायः स्वीकृतग्रन्थोऽध्वगः, स्वीकृतग्रंथश्च मोक्षाध्वनि सश्वरन् वस्त्राद्युपकरणवान् सितपट इति प्रयोगः साध्य साधको भवेत् , वस्त्रादिधर्मोपकरणस्याग्रन्थत्वस्य प्रतिपादितत्वादऋत्यहेतुरसिद्धश्च । अथाधमचोरास्तथाभूतमपि गृहन्तीति । तदग्राह्यत्वं तस्यासिद्धमिति चेत्तर्हि पुस्तकाद्यपि मोक्षाध्वसञ्चारिणान ग्राह्यं स्यात् , तदपि भगवता प्रतिषिद्धमिति न वक्तव्यम्, तत्प्रतिषिद्धपुस्तकादिग्राहिणामिदानीतनयतीनां तदा. ज्ञाविलोपकारित्वेनायतित्वप्रसक्तेः । ज्ञानाद्युपष्टम्भहेतुत्वेन तद्हणे पात्रादेरपि तत एव ग्रहणप्रसक्तिः । न वा पाथेयाद्युपकरणरहितस्याध्यगस्याप्यभीष्ट स्थानप्राप्तिः सम्भविनीति दृष्टान्तोऽप्यसङ्गत एव, सर्वस्य विशिष्टफलारम्भिणस्तदुपकरणरहितस्य तत्फलाप्रसाधकत्वात् 10 तथाहि यो यत्रोपायविकलो नासौ तत्साधयति, यथा कृप्याद्युपायविकलस्तत्फलम्, अशेष. कर्मविगमस्वभावमुक्तिफलवस्त्रादिधर्मोपकरणोपायविकलश्च मुनिर्भवद्भिरभ्युपगम्यत इति । न च क्षायिकज्ञानदर्शनचारित्राण्येव तदुपाय इति वक्तव्यम् , वस्त्रादिधर्मोपकरणविकलस्य क्षायिकज्ञानादेरेवासम्भवात्तदेवं धर्मोपकरणयुक्तस्य महाव्रतधारिणो निर्ग्रन्थत्वादार्यिकाणामपि मुक्तिप्राप्त्यविरोध इति ॥ 15 इति श्रीतपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजय कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरण तत्पधरेण विजयलब्धिसरिणा सङ्कलिते सम्मतितत्वसोपाने मुनिवस्त्रादि समर्थनं नाम चत्वारिंशं सोपानम् ॥ 20 अथ स्त्रीमुक्तिसाधनम् ननु स्त्रियो मुक्तिभाजो न भवन्ति स्त्रीत्वाच्चतुर्दशपूर्वसंविदागिन्य इव, भैवम् सर्वासां मुक्तिभावाभावसाधने सिद्धसाध्यत्वादभव्यस्त्रीणां मुक्तिसद्भावानभ्युपगमात्, भव्यस्त्रीणां तद्भाक्त्वाभावसाधनेऽपि तस्यैव दोषत्वाद्भव्यानामपि सर्वासा मुक्त्यनिष्टेः । भवा वि ते अणंता सिद्धिपहं जेण पाति ' इति वचनप्रामाण्यात् । यद्यवाप्तसम्यग्दर्शना भव्यलिय 25 इत्युच्यतेऽत्रापि स एव दोषः, प्रोझितसम्यग्दर्शनानां तासां तदनिष्टेः, अपरित्यक्तसम्यग्दर्शना इत्युक्तावपि न तद्दोषबहिष्कृतिः, अप्राप्ताविकलचारित्राणां तत्प्राप्त्यनभ्युपगमात् । न चाविकलचारित्रप्राप्तिरेव स्त्रीत्वात्तासां न भवतीति वाच्यम् , पुरुषस्यापि पुरुषत्वात्तदभावप्रसक्तेः । न च पुरुषे सकलसावद्ययोगनिवृत्तिरूपा चित्तपरिणतिः स्वात्मनि स्वसंवेदनाध्यक्षसिद्धा, परात्मनि चानुमानत इति वाच्यम , स्त्रीणामपि तत्परिणतेस्तथैव सिद्धेः । "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy