SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सोपानम् मुनिवस्त्रादिसमर्थनम् । पिछिकादेरभिष्वङ्गहेतुत्वानुपपत्तेधर्मोपकरणत्वं युक्तं न वस्त्रादेस्तद्विपर्ययादिति वाच्यम् , अनभिष्वङ्गनिमित्तस्यैव तस्यापि धर्मोपकरणत्वाभ्युपगमात् , अभिष्वङ्गनिबन्धस्य शरीरादेरपि धर्मोपकरणत्वात्, न हि शरीरेऽप्यप्रतिबद्धानां विदितवेद्यानां साधूनां वस्त्रादिषु ममेद. मित्यभिनिवेशः, परेणाप्यभ्युपगमनीयमेतत् , अन्यथा शुक्लध्यानाग्निना कर्मेन्धनं भस्मसास्कुर्वतः परित्यक्ताशेषसङ्गस्य केनचित् तदुपसर्गकरणबुद्ध्या भक्त्या वा वस्त्राद्यावृतशरीरस्य 5 ग्रन्थत्वात् परमयोगिनो मुक्तिसाधकत्वं न स्यात्, स्वयमादत्तवस्त्रादेरेवाभिध्वङ्गनिमित्ततया न धर्मोपकरणत्वमिति चेन्न, स्वयं गृहीतपिछिकादिनाव्यभिचारात् । न च पिञ्छिकाद्यग्रहेऽप्रमार्जितासनाद्युपवेशनादिसम्भवतः सूक्ष्मसत्त्वव्यापत्तिसद्भावे प्राणातिपातविरमणादिमहाव्रतधारणानुपपत्तेस्तस्य ग्रहणं धर्मोपकरणत्वञ्चात एवेति वाच्यम, एवं पात्रस्यापि धर्मोपकरणत्वात्तग्रहणात्तदन्तरेणैकत्रैव हस्त एव वा भुजिक्रियां विदधतामारम्भदोषतः कर. 10 चरणक्षालने च जलगतासंख्येयादिसत्त्वव्यापत्तितो महाव्रतधारणानुपपत्तेः । न च प्रतिगृह भिक्षामात्रस्योदनस्योपभोगाद्वस्त्रपूतोदकाङ्गीकरणाचायमदोष इति वक्तव्यम् , तथाभूतप्रवृत्तेयुष्मास्वनुपलम्भात् , प्रवृत्तावपि प्रवचनोपघातप्रसक्तेः, तस्य चाबोधिबीजत्वात् 'छक्कायदयावंतो वि संजओ दुल्लहं कुणइ बोहिं । आहार ' इत्याद्यागमप्रामाण्यात् , न च गृहस्थवाससा पूतमप्युदकं निर्जन्तुकं सर्वं सम्पद्यते, तज्जन्तूनां सूक्ष्मत्वाद्वस्त्रस्य चाधनत्वात् , 15 गृहिणां तच्छोधनेऽतिशयप्रयत्नानुपपत्तेश्च । न च कर एव प्रत्युपेक्षणात्तत्सत्त्वानुपलब्धौ तदुपभोगान्न दोष इति वाच्यम् , तथाऽनिरीक्षणात् , तदनुपलब्धावपि तदभावनिश्चयायोगात् । न च यत्ननिरीक्षणानुपलब्ध्या व्यापाद्यमाना अपि सत्त्वा न व्रतातिचारनिमित्ताः, विषचूर्णादेयत्नानुपलब्धभुक्तस्य प्राणनाशहेतुत्वोपलब्धेः । न च चतुर्थरसादेः प्रासुकोदकस्योपभोगादयमदोषः, तत्रापि सत्त्वसंसक्तिसंभवात् । करप्रक्षिप्ते तस्मिन् तन्निरी- 20 क्षणे पानोज्ज्ञनयोस्तद्व्यापत्तिदोषस्यापरिहार्यत्वात् , पात्रादिग्रहणे तु तत्प्रत्युपेक्षणस्य तद्रक्षणस्य च सुकरत्वान्न व्रतातिचारदोषापत्तिः । न च त्रिवारोद्वत्तोष्णोदकस्यैव परिभोगादयमदोषः, तथाभूतस्य प्रतिगृहं तत्कालोपस्थायिनस्तस्याप्राप्तः, प्राप्तावपि तृडपनोदाक्षमत्वा त्तद्युक्तस्य चानुत्तमसंहननस्येदानीन्तनयतेरार्तध्यानोपपत्तेस्तस्य च दुर्गतिनिबन्धनत्वात् । न च तृडादर्दुःखस्य तपोरूपतया न दोष इति वाच्यम्, अनशनादेर्वाह्यतपस आन्तरतपउपचय- 26 हेतुत्वेनाश्रणीयत्वात् , अन्याग्भूतस्य चातपस्त्वात् । सो य तवो कायवो जेण मणो मंगुलं न चिंतेइ" [ पश्चव० गा० २१४ ] इत्याचागमप्रामाण्यात् , तन्न वस्त्रपात्रादिविकलस्येदानीन्तनयतेः सर्वसावद्ययोगप्रत्याख्यानं सम्भवतीति कथं न तस्य धर्मोपकरणत्वम् । अल्पमूल्याशोभनवस्त्रादिग्रहणाच न पथि सञ्चरतो यतेश्वोरादिभीतिरिति कथं स्वीकृतग्रन्थस्या "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy