________________
सोपानम् ]
मुनिवस्त्रादिसमर्थनम् ।
: ३५५ :
कस्य निश्शेषतो मुक्तेष्वेव सम्भवात्ततश्च कथं तस्य रागाद्यपचयहेतुतेति हेतोर्विशेषणासिद्धत्वात् । न प्रथमः, देशनैर्गन्ध्यं हि किं सम्यग्ज्ञानादितारतम्येनोपचीयमानमथवा बाह्यवस्त्राद्यभावरूपम्, नाद्यः, तथाभूतस्य वस्त्रादिग्रहणस्य सम्यग्ज्ञानादिविपक्षत्वेनासिद्धेतोर्विशेष्यासिद्धिप्रसङ्गात् । नान्त्यः, वस्त्राद्यभावस्य रागाद्यपचयनिमित्तत्वासिद्धया देतोविशेषणासिद्धत्वात् । वस्त्राद्यभावो रागाद्यपचय हेतुरिति न वक्तव्यम्, अतिशय रागवद्भि: 5 पारापतादिभिर्व्यभिचारात् । न च पुरुषत्वे सति वस्त्राभावो रागाद्यपचय हेतुरिति वाच्यम्, वस्त्रविकलनाहलैर्व्यभिचारात् । आर्यदेशोत्पत्तिमत्पुरुषत्वे सतीति न विशेषणीयम्, तथाभूतकामुकपुरुषैर्व्यभिचारात् । व्रतधारितथाभूतपुरुषत्वे सतीत्यपि न चारु, तथाभूतपाशुपत्तैर्व्यभिचारात् । न चार्हतशासनप्रतिपत्तिमत्तथाभूतपुरुषत्वे सतीति विशेषणमुपादीयत इति वाच्यम्, उन्मत्तदिगम्बरैर्व्यभिचारात्, अनुन्मत्तत्वे सतीति विशेषणे मिध्यात्वोपेतद्रव्य- 10 लिङ्गावलम्बिदिग्वाससा व्यभिचारः, सम्यग्दर्शनादिसमन्वितपुरुषत्वे सतीत्यायुक्तौ तु विशेषणस्यैव स्वसाध्यसाधनसामर्थ्ये विशेष्यस्य वैयर्थ्यम्, विशिष्टश्रुत संहननविकलानामत्रकाभाविपुरुषाणां वस्त्रादिधर्मोपकरणाभावे यतियोग्याहारविरह इव विशिष्टशरीरस्थितेरभावतो न सम्यग्दर्शनादिसमन्वितत्वविशेषणोपपत्तिरिति विशेष्यसद्भावो विशेषणस्य बाधक एव । ननु वस्त्रादिपरिग्रहस्तृष्णापूर्वकः, तस्याः सत्त्वे रागादेरवश्यम्भावात् सम्यग्दर्शनादेस्त- 10 द्विपक्षत्वात्तृष्णाप्रभववस्त्रग्रहणाभावः स्वकारणनिवृत्तिमन्तरेणानुपपद्यमानो रागादिविपक्षभूतसम्यग्ज्ञानाद्युत्कर्षविधायकत्वात् कथं तद्भावबाधकत्वेनोपदिश्यत इति चेन्न, वस्त्रादि परिग्रहस्य तृष्णानिमित्ततायामाहारग्रहणस्यापि तथात्वप्रसक्तेः । न चाहारग्रहणं न परिग्रहव्यवहारविषयमिति वाच्यम्, मूर्च्छाविषयत्वे तस्य परिग्रहशब्दवाच्यत्वोपपत्तेः । न चाहारो ज्ञानाद्युपष्टम्भनिमित्तशरीरस्थित्यादिनिमित्तं गृह्यते न तु मांसादिभक्षणवच्छरीरबृंहणार्थं 20 स्त्रक्चंदनादिवदुपभोगार्थं वेति नासौ तृष्णापूर्वक इति वाच्यम्, वस्त्रादिधर्मोपकरणग्रहणेऽपि समानत्वात् । न चाहारमन्तरेण चिरतरकालशरीरस्थितेरस्मदादे रदर्शनाद्वेदनोपशमादिभिः निर्निमित्तैस्तस्य ग्रहणं न नु तृष्णापूर्वकं तद्ग्रहणमिति वाच्यम्, अनुत्तमसंहननस्य विशिष्टश्रुतापरिकर्मित चित्तवृत्तेः कालातिक्रान्तादिवसतिपरिहारकृतप्रयत्नस्य षड्विधजीवनिकायविध्वंस विधाय्यग्न्याद्यनारम्भिणः शीताद्युपद्रवाद्वखादिग्रहणमन्तरेण शरीरस्थितेरभावात्त- 25 ग्रहणस्यापि न्याय्यत्वात् । तथा वाय्वादिनिमित्तप्रादुर्भूत विक्रियावल्लिङ्गसंवरणप्रयोजनपटलाद्युपधिविशेषस्य च ग्रहणं शीतादिबाधोपजायमानार्तध्यानप्रतिषेधार्थं युक्त कल्पादेचादानं किमिति नेष्यते । न च स्त्रीस्रकूचन्दनाद्यभावोपजायमान संक्केश परिणाम निबर्हणार्थं रूयादेरपि ग्रहणं प्रसज्यत इति वाच्यम्, अङ्गनासम्प्रयोगसंकल्पप्रभववेदनापरिणामोपशमार्थं
"Aho Shrutgyanam"