SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ सम्मतितासोपाने [ स्वारिया सूत्रमिति, अनेकार्थराशिसूचनात् सूते वाऽस्मादर्थराशिः शेते वाऽस्मिन्नर्थसमूहः श्रूयते वाऽस्मादनेकोऽर्थ इति निरुक्तिवशात् सूत्रम् , अर्यत इत्यर्थस्तस्य साक्षादभिधेयो गम्यश्च सामर्थ्यात्तस्य स्थानमेव सूत्रम् , यथार्थ सूत्रार्थव्यवस्थापनात् सूत्रान्तरनिरपेक्षस्य तस्यार्थव्यवस्थापने प्रमाणान्तरयाधया तदर्थस्य तत्सूत्रस्योन्मत्तवाक्यबदसूत्रत्वापत्तः, 5 अत एव नियुक्त्याद्यपेक्षत्वात् सूत्रार्थस्य न सूत्रमात्रेणैवार्थस्य पौर्वापर्यणाविरुद्धस्य प्रतिपत्तिः, अयथार्थतयाऽपि तस्यायिवृतस्य श्रुतेः । अर्थस्य यथाव्यवस्थितस्य प्रनिपत्तिस्तु द्रव्यार्थपयायार्थलक्षणनयवादस्वरूपारण्ये लीना, तथा च दुरधिगम्या । सकलनयसम्मतार्थस्य प्रति. पादकं सूत्रम् । जीवो अणाइणिहणो' इत्यादिवाक्यवन्न प्रमाणार्थसूचकं स्यात्, प्रवृत्तानि च नयवादेन सूत्राणि, तथा चागमः, 'पत्थि गएण विहूणं सुत्त अत्थो य जिणमए किश्चि । 10 आसज्ज उ सोआर णए णअविसारओ बूआ' [ आवश्यकनि० उवग्घायनि० गा० ३८ ] इति ॥ ६४ ॥ यत एवमनेकान्तात्मकार्थप्रतिपादकत्वेन सूत्रं व्याख्येयम्-- तम्हा अहिंगयसुत्तेण अत्थसंपायणम्मि जइयव्वं । आयरियधीरहत्था हंदि महाणं विलंयति ॥६५॥ 15 तस्मादधिगतसूत्रेणार्थसम्पादने यतितव्यम् । आचार्य धीरहस्ता हंदि महाज्ञां विडम्बयन्ति ।। छाया ॥ तस्मादिति, तस्मादधीततत्कालव्यावहारिका शेषसिद्धान्तेनार्थविषयप्रमाणनयस्वरूपावधारणे यतितव्यम् , अधीत्य सूत्रं श्रोतव्यं श्रुत्वा च नयसर्वसंवादविनिश्चयपरिशुद्धं भावनीयमन्यथाऽऽचार्या धीरहस्ता अशिक्षितशास्त्रार्थाः, अनभ्यस्तकर्माऽपि कर्मणि 20 धृष्टतया व्याप्रियते येषां हस्तस्ते धीरहस्ता आचार्याश्च ते धीरहस्ताश्च आचार्यधीरहस्ता अशिक्षितधृष्टाश्चेति यावत् , हंदि गृह्यताम् , ते तादृशा महाज्ञामाप्तशासनं विडम्बयन्ति । तथा च दृश्यन्त एव वस्त्रपात्रादिधर्मोपकरणसमन्वितानां यतीनां नैन्ध्याभावान्न सम्यग्नतानि तीर्थकृयः प्रतिपादितानीति प्रतिपादयन्तः सर्वज्ञवचनं यथावस्थितं नाव गच्छन्तो दिग्वाससः, तथाहि यद्रागाद्युपचयनिमित्त प्रध्यविपक्षरूपं तत्तदुपचयहेतुः, 25 यथा विशिष्टशृङ्गारानुषक्ताङ्गनाङ्गसङ्गादिकम् , यथोक्तनैर्ग्रन्थ्यविपक्षभूतञ्च श्वेतवाससा वस्त्रादिग्रहणमिति, तदसमीचीनम, रागाद्यपचयनिमित्तं हि किमेकदेशनैर्ग्रन्थ्यम् , आहोस्वित् सर्वथा नैन्थ्यम् , तत्र न चरमपक्षो युक्तः, तथाभूतनैर्ग्रन्थ्यस्य मुक्तव्यतिरेकेणासम्भवान् मिथ्यात्वाविरतिप्रमादकपाययोगबलप्रवृत्ताष्टविधकर्मसम्बन्धस्य ग्रन्थत्वात्तदभावस्य चात्यन्ति. "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy