SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] कालायेकान्तपादमजनम् । युक्तिसङ्गन्तः । अथ सर्वस्य वस्तुनः प्रतिनियतरूपेण भावात्तत्र नियतिरेव कारणम् , तीक्षणशस्त्राद्युपघातेऽपि मरणयोग्यनियत्यभावे जीवनदर्शनात् , तथाविधनियतिसद्भावे तु शस्त्राद्यु. पघातमन्तरेणापि मृत्योरुपलम्भात्, नहि नियति विना स्वभावः कालो वा कश्चिद्धतु: कण्टकादीनामपि नियत्यैव तीक्ष्णादिनियतरूपेणोपजायमानत्वात् , कालोऽपि शीतादेर्भावस्य तथाविधनियत्यैव तदा तदा तत्र तत्र तथा तथा निर्वर्तकः, तथा चोक्तम् ' प्राप्तव्यो । नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने नाभाव्यं भवति न भाविनोऽस्ति नाशः' इति केचित् , तन्न, शास्रोपदेशव्यर्थ. तापत्तेः, तदन्तरेणाप्यर्थेषु नियतिकृतत्वबुद्धेर्नियत्यैव भावात् , दृष्टादृष्टफलशास्त्रप्रतिपादितशु. भाशुमक्रियाफलनियमाभावश्च । अथ तथैव नियतिः कारणमिति नायं दोषः, न, नियतेरे. कस्वभावत्वाभ्युपगमे विसंवादायिसंबादादिभेदाभावप्रसक्तेः, अनियमेन नियतेः कारणत्वा- 10 दयमदोष इति चेन्न, अनियमे कारणाभावान्न नियतिरेव कारणम् , नियतेनित्यत्वे कारणत्वायोगात् , अनित्यत्वेऽपि तदयोग एव | क्रिश्च नियतेरनित्यत्वे कार्यत्वम् , कार्यश्च कारणादु. त्पत्तिमदिति तदुत्पत्तौ कारणं वाच्यम् , न च नियतिरेव कारणम् , तत्रापि पूर्ववत् पर्यनुयोगानिवृत्तेः । न च नियतिरात्मानमुत्पादयितुं समर्था, स्वात्मनि क्रियाविरोधात् । न च कालादिकं नियतेः कारणम् , तस्य निषिद्धत्वात । न चाहेतुका सा युक्ता, नियतरूपतानु- 15 पपत्तेः, न च स्वतोऽनियताऽन्यभाव नियतत्वकारणम् , शशशृङ्गादेस्तद्रूपतानुपलम्भात् , तन्न नियतिरपि प्रतिनियतभावोत्पत्तिहेतुः । अथ जन्मान्तरोपात्तमिष्टानिष्टफलदं कर्म सर्वजगद्वैचित्र्यकारणमिति कर्मवादिनः । तथा चाहुः । यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्तते ॥ ' इति, तथा च 'स्वकर्मणा युक्त एव सर्वो ह्युत्पद्यते नरः । स तथाऽऽकृष्यते तेन न यथा स्वयमिच्छति' 20 इति, तथाहि समानमीहमानानां समानदेशकालकुलाकारादिमतामर्थप्राप्त्यप्राप्ती नानिमित्ते युक्त, अनिमित्तस्य प्रतिनियमायोगात् । न च परिदृश्यमानकारणप्रभवे इति वाच्यम् , तस्य समानतयोयलम्भात् , न चैकरूपात् कारणात् कार्यभेदः, तस्याहेतुकत्वग्रसक्तेः, अहे. तुकत्वे च तस्य कार्यस्यापि तद्रूपतापत्तेः, भेदाभेदव्यतिरिक्तस्य तस्यासत्वात् , ततो यन्नि. मित्ते एते तद् दृष्टकारणव्यतिरिक्तमदृष्टं कारणं कमति, असदेतत् , कुलालादेर्घटादिकारण- 25 स्वेनाध्यक्षतः प्रतीयमानस्य परिहारेणापरादृष्टपरिकल्पनायां तत्परिहारेणापरापरादृष्टकारण. कल्पनयाऽनवस्थाप्रसङ्गतः क्वचिदपि कारणप्रतिनियमानुपपत्तेः । न च स्वतन्त्रं कर्म जगद्वैचिज्यकारणमुपपद्यते, तस्य कर्बधीनत्वात् , न चैकस्वभावात्ततो जगद्वैचित्र्यमुपपत्तिमत् , कार. णवैचित्र्यमन्तरेण कार्यवैचित्र्यायोगात्, वैचित्र्ये च तदेककार्यताप्रच्युतेः, अनेकस्वभावत्वे "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy