________________
: ४:
यितृनृपतिपतिविक्रमक्षोणीपालाऽऽस्थानविद्वत्तारागणसुधाकरः श्वेताम्बरसम्प्रदायाम्बर मणिराचार्यसिद्धसेन दिवाकरस्तदुज्जिजीविषया सम्यक् श्रद्धादृढीकरणप्रयोजनं षट्षष्टयुत्तरशतसंख्यापरिमाणं सम्मतितर्कप्रकरणं नाम प्राकृतभाषामय मार्याछन्दोबद्धं प्रकरणमरीरचत् । इदमेव च तत्र तत्र मन्थेषु सम्मतिरिति सम्मतितर्क इति च व्यवद्दियते, समीचीना मतिर्यस्मात् स सम्मतिः, सम्यङ्मन्यतेऽवबुद्ध्यते प्रामाण्य सर्वज्ञत्वनयप्रमाणादिस्वरूपाणि यस्मात् स सम्मतिरिति वा सम्यङ्मननं सम्मतिस्तत्पूर्वकस्तर्कों हि यत्रेति सम्मतितर्क इति वा व्युत्पत्तिः, तर्कों हि मिथ्यादृशां प्रामाण्यादिविषयो नयाभासमूलकः, तन्निरासोऽत्र प्रमाणमूलतः क्रियत इति सम्मतितर्क इत्यन्वर्थं नाम, इदमेव च नामास्य मूलस्य ग्रन्थकर्तुरभिप्रेतमिति मौलविषयानुरोधात् प्राचीन लिखितमूलपन्नानुरोधाद्व्यवहा राव विज्ञायते । एतेन मूलस्य सन्मतिगर्भितमेव नाम दिगम्बरपरम्परायां महावीरस्य वाचकत्वेन सन्मतिशब्ददर्शनात्तत्सिद्धान्तप्रतिपादकत्वेनास्य मूलस्य तेन सह सम्बन्धप्रदर्शनौचित्यात्, श्लेषेण श्रेष्ठमतिमत्त्वस्यापि प्रदर्शनौचित्यात्, सम्मतिशब्दव्यवहारस्तु सन्मतिशब्दस्य महावीरवाचकत्वेनाग्रहणाद् भ्रममूलक एवेति मतमपास्तम्, महावीरेणैव प्रतिपादित सिद्धान्तप्रतिपादकत्वेनाभ्युपेतत्वे भवजिनानां जिनानां शासनं सिद्धं प्रतिपाद्य तद्व्याख्यातृप्रतिपादितार्थावधारण सामर्थ्य सम्पादकत्वं निजप्रकरणस्याभिधाय तीर्थकरवचनसङ्ग्रहविशेषप्रतिपादकद्रव्यार्थिक पर्यायार्थिकनयादिव्यावर्णनस्य भद्रं जिनवचनस्य भगवत इत्युपसंहरणस्य च मूलकारकृतस्य चारुताऽनिर्वाहात्, सामान्यतयोक्तेर्हेतुमन्तरेण महावीरॉवेशेषार्थ पर्यवसायित्व व्यावर्णनस्यानौचित्यात्, सत्सु बहुषु महावीरपर्यायव्देषु परम्परान्तरप्रसिद्धशब्दोपादाने प्रयोजनमन्तरेण मूलकृदभिप्रायकल्पनाया निर्मूलत्वात्, सम्मइ इति प्राकृताभिधानस्य गीर्वाणवाण्यां सन्मतीत्येव च्छाया न तु सम्मतीत्यत्र नियामकाभावात्, सम्मतिशब्दस्योक्तरीत्या सार्थकत्वे बाधकाभावाच्च ।
एतस्य व्याख्या राजगच्छालङ्कारेण प्रद्युम्नसूरिशिष्येण भर्तृहरिकुमारिलभट्टानन्तरकालीनेन न्यायवनसिंहेन तार्किक शिरोमणिना श्रीअभयदेवसूरिणा विरचिता सामान्यतः पश्चविंशतिसहस्रश्लोकप्रमाणा किसलयित विविधदर्शन वा दमही रुह कुठारकल्पा धीरधिषणावधार्यसारार्थी वादमहाfवापराभिधाना आर्हतसिद्धान्तप्रतिष्ठापनाऽप्रतीकाशसामर्थ्यप्रसविनी तत्त्वबोध विधायिनी यथार्थाभिधाना समुल्लसति । मूलग्रन्थः काण्डत्रयेणानिर्दिष्टविशेषनाम्ना विभक्तो भवेत् तथैव तद्व्याख्यापि, नयकाण्डज्ञानकाण्डज्ञेय काण्डेत्येवमभिधानविशेषश्चप्रचलित मुद्रित पुस्तके पूपलभ्यमानस्तत्प्रकाशकर्तृप्रकाशित एव, नतु तथाविध एव स नामविशेषो मूलटीकाकर्त्रभिप्रेत इत्यत्र प्रमाणमस्ति, सामान्यतो विषयमनुसृत्यैव प्रकाशकर्तृभिः तेपां तथाविधनाम्ना निर्देशः कृत इति भवेत् ।
व्याख्येयं तत्त्वबोधविधायिनी अनेकान्तसिद्धान्तसंस्थापनाधुरीणा दुर्गमतर्कमार्गविविकप्रचारा
"Aho Shrutgyanam"