________________
३२ ]
प्रबन्धपञ्चशती
प ददौ । ततो लक्ष्मीवन्तो जाताः सन्तो लघुभ्रातरं भपं विनयेन न मन्यन्ते । प्रायः श्रीमत विनयो न भवति -
5
पूर्व श्रीपुरे कमलश्रेष्ठी बभूव । तस्य भार्या कमला । तौ द्वावपि गुरुपार्श्वे धर्मं श्रुत्वाऽतिथि10 संविभागतं ललतुः । तद्व्रतं सम्यक्प्रपाल्य त्वं स प्रियो भूपोऽभूः, ततो विशेषतोऽतिथिसंविभागव्रतं शुद्धमाराध्य पञ्चमस्वर्गे राजा राज्ञी च मयजन्म प्राप्य कर्मक्षयात् मुक्तिं जग्मतुः ॥ ॥ इति अतिथिसंविभागवते सान्क्लकौटुम्बिकादिकथा ||१८||
15
भक्ते द्वेषो जडे प्रीति -- रुचितं गुरुलङ्घनम् । मुखे कटुकतात्यन्तं, धनिनां ज्वरिणामिव ||३||
क्रमात्तेषामन्यायेन चलतां ग्रामा उद्वसा जाताः पुनर्दुःखिनो जाताः सन्तो भूपं सेवन्ते श्रियोऽर्थं "श्रीणश्चन्द्रः सूर्य सेवते " । ततो राज्ञा सज्जनत्वात्ते भ्रातरो मानिता लक्ष्मीदानात् । अन्येद्युस्तत्र गुरुरागात् । धर्म श्रोतुं नृपोऽगात् । धर्म पप्रच्छ, मया किं कृतं पुण्यम् 1 गुरुभिरुक्तम्
20
[59] सत्योपरि मुनिकथा |
एकस्मिन् पुरे कोऽपि मुनिः कस्यापि गृहे भिक्षार्थं प्रविष्टः । तेन नत्वा मुनिः पृष्टः-भगवन ! त्रिगुप्तिगुप्तोऽसि । मुनिनोक्तं - नाहं गुप्तः । कथम ? तेनोक्तम्
एकदा कस्यापि गृहे भिक्षार्थमगमं, तस्य प्रियाया वेणीदण्डं दृष्ट्वा स्वभार्या स्मृतवानहम् । अतो मनोगुप्तिर्मम नास्ति । पुनरेकदा भिक्षार्थमिभ्यगृहेऽगममहं तेन कदलीफलानि दत्तानि अन्यगृहे मया पृष्टेन व्याहृतम् । तेन तद्वैरिणा तत् नृपाय निवेदितम् देव ! भवद्वाटिकाया रम्भाफलानि श्री श्रेष्ठिगृहे यान्ति । राज्ञोक्तम् कथं ज्ञायते ?
"
तेनोक्तम् - श्रेष्ठिना मुनेर्दशानि मया तु मुनिमुखात् श्रुतम् । एवंविधानि सदाफलकदलीफलानि भवद्वाटिकां मुक्त्वाऽन्यत्र न सन्ति तच्छ्रुत्वा नृपेण श्रेष्ठी दण्डितः, अतो मे वाग्गुप्तिर्नास्ति । येन श्रेष्ठदण्डनेऽहं हेतुरभूवम् । तथाऽहमेकदाऽटव्यां श्रान्तः विश्रान्तश्च प्रमिलां [प्रमीलां]प्रापम् । तत्रैकः सार्थः स्थितोऽभूत् रात्रौ सार्थपतिनोक्तम् -- प्रातर चलिष्यते तेन सकालमन्नानि कुरुत जनाः, ततः सर्वो जनोऽन्नपाके लग्नः एकेनान्धकारवशादेकस्मिन्पक्षे मम मस्तकपार्श्वे पाषाणं 25 मुक्त्वा चुल्लकः कृतः, तन्मध्ये वह्निरुद्दीपितः, मया शिरोऽपाकृतम् अतो मे कायगुप्तिरपि नास्ति । अतो नाहं भिक्षाहः । तस्य सत्यभाषणे श्रेष्ठी हृष्टः प्रतिलाभ्य प्रेषितो मुनिः । श्रेष्ठी प्रशंसयाऽनुतरविमानादिसुखमर्जितवान् । मुनिस्तु तादृशं तादृशमात्मानं निन्दन् चिरं चारित्रं प्रपाल्य क्रमादिवं गतः । इति सत्योपरि मुनिकथा ॥५९॥
" Aho Shrutgyanam"