________________
प्रथमोऽधिकारः
धर्मसिद्धौ ध्रुवं सिद्धि-घुम्नप्रद्युम्नयोरपि । दुग्धोपलब्धौ सुलभा, संपत्तिर्दधिसपिषोः ||७|| नमस्कारसमो मन्त्रः, शत्रुञ्जयसमो गिरिः । गजेन्द्रपदजं नीर, निर्द्वन्द्वं भुवनत्रये ||८|| कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । शत्रुञ्जयं समाराध्य, तिर्यञ्चोऽपि दिवं गताः ॥९॥ स्पृष्ट्वा शत्रुञ्जयं तीर्थं, नत्वा स्वताचलम् । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते ॥१०॥
इत्युपदेशं श्रुत्वा जगसिंहसाधुरे कोनत्रिंशत्शत मितशकटसहस्रानुमित घोटकद्वापाशदेवालयादिश्रीसंघः श्रीसोमतिलकसूरियुक्तः श्रीशत्रुञ्जय - गिरनारयोर्यात्रां चक्रे ।
यस्मात् श्रीभरतेश्वराग्रिमनृपाः संजज्ञिरे चक्रिणः । श्रीमच्छ्रेणिक सम्प्रतिप्रभृतयस्तीर्थेश भावांचिताः ॥ निःसीमद्रविणानुबन्धिसुकृताः श्रीशालिभद्रादयस्तस्मिन्निर्मलधर्मकर्मणि सदा कार्यः प्रयत्नो बुधैः ॥११॥
फलं च पुष्पं च तरुस्तनोति, वित्तं च तेजश्च नृपप्रसादः । वृद्धिं प्रसिद्धिं तनुते सुपुत्रो, भुक्ति च मुक्ति च जिनेन्द्रधर्मः ||१२||
इति जगसिंहशत्रुञ्जययात्रासम्बन्धः ||२२||
[23] नापितमन्त्रिकरणसम्बन्धः ।
[ ९
1
" Aho Shrutgyanam"
5
10
20
एकस्मिन्पुरे भीमस्य भूपस्य नापितः प्रधानो बभूव । मन्त्रिणो न मन्यन्ते मनागपि, क्रमात् वैरिभिः परितो व्याप्तं राज्यम् । ततो नैके जल्पन्ति मन्त्रिणो विना राज्यं यास्यति । मित्रैरपि प्रोक्तम्- नापितस्य परीक्षां कुरु, वैरिषु समेतेषु कथं राज्यं रक्षिष्यति । एकदा राज्ञा नापितः पृष्टः । यदि कदाचित्परचक्रं समेष्यति तदा त्वया कथं जेष्यते, का बुद्धिः कथं करिष्यते च ? । ततो नापितोऽवग् आदर्शान् हस्ते कृत्वा निर्गमिष्यते [ निर्गमिष्यामः ] पुराद तैरादशैरेव युद्धं करिष्यते ततस्ते नंष्ट्रा यास्यन्ति । ततो राज्ञा ज्ञातमेष नापितो न प्रधानः, यन्मया मन्त्रिणोऽपमानितास्तदयुक्तं कृतम् । यदि मन्त्रिणो न मानयिष्यन्ते तदा राज्यं गमिष्यति । ततो राज्ञा मन्त्रो मानिताः । ततो मन्त्रिबुद्धधा ये ये वैरिणोऽभूवन् ते ते वशीकृताः ॥
इति नापितमन्त्रकरण सम्बन्धः ||२३||
15
25