________________
15
प्रबन्धपश्चशती धर्मज्ञो धर्मकर्ता च, सदा धर्मप्रवर्तकः । सत्त्वेभ्यो धर्मशास्त्रार्थ-देशको गुरुरुच्यते ॥२॥ अज्ञानतिमिरान्धानां, ज्ञानाञ्जनशलाकया ।
नेत्रसुन्मीलितं येन, तस्मै श्रीगुरवे नमः ॥३॥ ___इति धर्मोपदेशं श्रुत्वा धर्मिष्ठानुरागं च ज्ञात्वा जगसिंहः साधुः सविशेषां श्रीजिनप्रभसूरीणां भक्ति चक्रे वयवस्खानपानदानात् ॥२०॥
[21] साधर्मिकभक्तौ जगसिंहसाधुसम्बन्धः । साधर्मिकवात्सल्यफलं मुक्तिशर्मप्रापकं श्रुत्वा जगसिंहसाधुर्देवगिरौ ३६० प्रमाणाः [णान् ] 10 स्वतुल्यव्यवहारिणो धनव्यवसायादि-सानिव्यकरणादिभ्यः साधर्मिकाचके, ततः प्रति दिनमेकै
कस्मिन् गृहे पक्वान्नादिरसवती निष्पाद्यते । तत्र सकुटुम्बा सर्वे श्राद्धा जिमन्ति स्म । तत्र दिनं प्रति [प्रतिदिन] ७२ सहस्रद्रव्यव्ययो भवति । एवं प्रतिगृहे जिमतः वर्षप्रान्ते द्वितीयवारं वारका समायाति, ततो धर्मकृत्यां कुर्वाणेन जगत्सिहसाधुना भरतदण्डवीर्यराजानौ स्मारितौ ॥२१॥
[22] जगसिंहशत्रुञ्जययात्रासम्बन्धः । एकदा जगसिंहसाधुः श्रीसोमतिलकसूरिपार्वे धर्मरूपं [ स्वरूपं ] पप्रच्छ । तदा गुरुभिः प्रोक्तमेवं धर्मतत्त्वम् ये मिथ्यात्वतिमिरान्धा न भवन्ति तेषां पुर एवं धर्मः प्रोक्तव्यः जैनमते
धम्मेण धणं विउलं, आउं दीहं सुहं च सोहग्गं । दालिदं दोहग्गं अकालिमरणं अहम्मेण ॥१॥ कथमुत्पद्यते धर्मः, कथं धर्मो विवर्धते । कथं वा स्थाप्यते धर्मः, कथं धर्मो विनश्यति ॥२॥ सत्येनोत्पद्यते धर्मो, दयादानेन वर्धते । । क्षमया च स्थाप्यते धर्मः, क्रोधलोभाद्विनश्यति ॥३॥ अहिंसालक्षणो धर्मो-ऽथाधर्मः प्राणिनां वधः । तस्माद् धर्मार्थिना नित्यं, कर्तव्या प्राणिनां दया ॥४॥ स्वाख्यातः खलु धर्मोऽयं, भगवद्भिर्जिनोत्तमैः । यं समालम्ब्य[लम्ब]मानो हि, न मजेद्भवसागरे ॥५॥ संयमः सूनृतं शौचं, ब्रह्माकिश्चनता तपः ।
शान्ति ईवमृजुता, मुक्तिश्च दशधा स तु ॥६॥ १. ०पानमदातु० B. २. निष्पद्यते. B. C.
20
25
"Aho Shrutgyanam"