________________
प्रथमोऽधिकारः
कपर्दिकामूल्यं । राज्ञा पृष्टं कथं ज्ञायते ? प्रथमं घनघातशतेनापि न भग्नम् । द्वितीयं धनघातदशके मनागुच्छ्वसितम् । तृतीयं घनघाताद्विधा जातम् । प्रथमघाते मध्ये मण्डूकिका सूक्ष्मा निर्गता, ततः साधुर्मानितः, तस्य वणिजः प्रथमरत्नस्य लक्षत्रयं दापितं, द्वितीयस्य लक्षं दापितं, तृतीयस्य कपर्दिका दापिता ॥ १५ ।।
एकस्मिन्पुरे श्राद्धमध्ये रोग उत्पन्नः कथमपि न निवर्त्तते, ततः श्राद्धद्वयं श्रीजिनप्रभसूरि. 5 पार्श्व प्रेषितं । तौ श्राद्धौ जिनप्रभसूरीणां ध्यानं कुर्वतां पार्श्वे यावदायातौ तावद् गुरुपार्श्वे युवतीद्वयं ददर्शतुः । ततस्तौ दध्यतुः, गुरूणां स्त्रीणां परिग्रहो विद्यते, ततो यावद्वलितौ स्तम्भितौ, ततो ध्यानानन्तरं ते देव्यो प्रोचतुः-आवां कथमत्रानीते ? गुरुभिः प्रोक्तं युवाभ्यां श्रीसंघस्योपद्रवः क्रियतेऽतः शिक्षा [ शिक्षा ] दास्ये। ततस्ते प्रोचतुः अद्यप्रभृति श्रीसंघस्योपद्रवो न कार्य: । ततस्ते विसजिते । श्राद्धद्वयं मुत्कलं जातं, गुरवो नताः, स्त्रीसम्बन्धः पृष्टः । गुरुभिः प्रोक्तं भवतां पुरे 10 श्राद्धानामुपद्रवः श्रुतः, स चाधुना निवारितोऽस्ति, भवद्भया दृष्टम् , ततस्तौ श्राद्धौ स्वपुरे गत्वा गुरुकृतं ज्ञापितवन्तौ ॥ १६ ॥
एकदा मेदपाटीयः पाल्हाको वैद्यः सुरत्राणचिकित्साकृते आगतोऽभूत्, स च कोमल्लसूरिशालायां गतस्तत्र श्रीतपागच्छसूरिवराणां तैनिन्दा कृता, ततस्तेन हकितास्ते यतयः कोमलाः, ततः कलिर्जातः केषांचित् हस्तो भग्नः, केषांचिन्मुखं ततः सर्वे वादं कुर्वाणाः सुरत्राणपाधैं 15 गताः सुरत्राणेन सर्वेषां चेष्टितं ज्ञात्वोक्तम्-कस्य दण्डः क्रियते, सर्वे न्यायिनः, सर्वे चान्यायिनः, अधप्रभृति केनापि कलहो न कर्तव्यः । ॥ इति समतायां पीरोजसुरत्राणसम्बन्धः ।।१६॥
}} इति कियन्तो जिनप्रभसूरीणामवदातसम्बन्धाः ॥१७॥
[18] प्रस्तररत्नप्राप्ती जगडूसम्बन्धः ॥ भद्रेश्वरपुरे वेलाकूले श्रीमालज्ञातीय जगडू साधुर्वसति, स च जलस्थलव्यवसायं करोति स्म । एकदा जगडू वणिजो यानपात्रं वस्तुभिर्भूत्वा हरीमजद्वीपे गतः तत्र वस्कारिका गृहीता वस्तु उत्तारितं, क्रयविक्रये यौ] कर्तुं लग्नः तत्र च बहवो वस्कारिकाः सन्ति ।
एकदा द्वयोर्षस्कारिकयोरन्तरे महान् प्रस्तरो निर्ययो । स च बहिः कर्षितोऽन्तराले स्थापितः । तस्योपरि उपविशतो द्वावपि वणिजौ । क्रमाद्विवादोजातः। एकः कथयति मदीयः अपरोऽपि 25 वक्ति मदीयोऽयम् । एवं विवादे जाते राजपाधै गत्वा अपरेण वणिजा सहस्रत्रयं टङ्ककानां मूल्यं कृतम् । जगडूवणिजा बहुधनं दत्त्वा स प्रस्तरो गृहीतः, याने क्षिप्तः, यानपात्रं चलितं भद्रेश्वरोपकण्ठे समागतं यावत्तावदेकेन नरेण जगडूपाचे प्रोक्तं भवतो वाणिजकः प्रचुर धनमुपाागतः वर्य एको महान् पाषाण आनीतोऽस्ति तेन गेहमपि भरिष्यति । इति हास्येनोक्ते जगडूः प्राह-“वणिजो यदि वयं चावय॑ चानयन्ति तच्छ्रेष्ठिनः प्रमाणमेव । यादृशं भाग्यं 30 धनिकस्य भवति ताहगेव वस्तु आयाति. लाभोऽपि तादृक्ष एव भवति, अत्र विचारो न क्रियते। ततो जगडूः समुद्रतीरे तस्य संमुखं गत्वा सन्महं वणिकपुत्रं प्रस्तरं च स्वगृहे नीतवान् प्राह
"Aho Shrutgyanam"