________________
5
चतुर्थोऽधिकार
[ ३५१ स्थितिर्न शोभते तेन श्रीमातया बकुलचम्पकयोरधः ७२ द्रम्मल क्षयुता भूरर्पिता । ततोऽम्बिकावचनात् जीर्णा ऋषमप्रतिमा भूमिमध्यगता कर्षिता । ततोऽम्बिकागिरा चन्द्रावतीशविमलदण्डनायकेन पुत्राप्ति-जिनप्रासादनिर्मापणयोः प्राप्ति स्ति, एकतरं वरं वृणु । इत्युपवासत्रयाराद्धाऽम्बिकातो लब्धवरेण पुत्रात् [ प्रासादो] वरमिति तत्त्वं विमृश्य कुंकुमाहलीचिडून प्रासादः कार्यते । परं दिवा कृतो रात्रौ पतति । एवं षडमासाः । स्मृता देवी चागत्याह-एतस्या मुवो नेता बालीनाह (?) नाग उपवासत्रयेण पूजोपहारयुतेन त्वया चाराध्यः । निरवचनैवेद्यं याचते तदा देयम् । मद्यादि तु न दास्यते, खड्गमाकृष्य भापनीयः। खनन भापनात वालीनाहो नष्टः। क्षेत्रपालीवचसा भूयः स्थितः। निर्विघ्नं प्रासादे निष्पन्ने १०८ रीरीमयबिम्बं ऋषभस्य नागेन्द्रादिभिः सूरिभिः प्रतिष्ठितम् ।
ततो विमलः पत्तनेशभीमभूपेन छत्रचामरादि दत्वा नृपतिः कृतः। तत्पुत्रेण चाहिलेन 10 तत्र रंगमण्डपः कारितः । अत्र चारणोक्ति एवं
मंडी मुरकीरइ करइ, छंडीम सम्गाह ।
विमल डिखाडउं कड्रिउ, नाठउ बालीनाह ॥१॥ इति विमलमन्त्रीकता दिप्रासादसम्बन्धः ॥६२२॥
[ 623 ] अथ अर्बुदतीर्थे लूणिगवसतिनिष्पत्तिसम्बन्धः । पूर्व धवलाके लूणिग-मालदेव-वस्तुपाल-तेजपाला भ्रातरो वसन्ति निद्रव्याः। लूणिगस्य मरणसमये पुण्यव्ययेन नमस्कारा लक्षा मानितास्तैः । प्रोक्तं चापरं याचस्व । लूणिगोऽवग-विमलवसतौ देवकुलिकाकरणे मनोरथो विद्यते मम । भ्रातृभिः प्रोक्तं यदि लक्ष्मीभविष्यति तदा तव मनोरथ: पूरयिष्यते । तदनु व्यापारे जाते अबु दे तीर्थे भ्रातृमनोरथपूरणाय श्रीमाता,कस्य बोड़ाकस्य चन्द्रावतीशधारावर्षराणकस्य च पार्थात् तत्र भूर्द्रम्मैराच्छाच गृहीता । ३६ द्रम्ममूढका 20 विस्तारिता भूग्रहणाय । तैरुक्तं भरटकैरयं द्रम्मैः पर्वतं समग्र ग्रहीष्यात ततो न ददाति । ततस्तत्र १२-३ वर्षे प्रामादारम्भः, ५२९२ वर्षे पूर्णः । द्रव्यकाटि १२, लझ ५३ लग्नम् । लूणिगवसतीति नाम दत्तम् ।
लूणिगवसतिप्रतिष्ठायां समाहूताः ८४ राणकाः, २० मंडलिकाः, ४ महाधराः,८४ महाजनाः । जावालिपुरेश श्रीउदयननृपप्रधानमन्त्री यशोवीरो मन्त्रिवस्तुपाल प्रासादगुणदोषान् प्रपच्छ । प्राह 23 च शोभनदेवसूत्रधारः शोभन: । परं तन्मातुः कीर्तिस्तंभे हस्तोतंभनमयुक्तम् ।
सत्र स्तम्भस्थविवानामाशातना । गर्भगृहप्रवेशे सिंहाभ्यां तोरणं देवस्य विशेषपूजानाशाय । पूर्वजमूर्तीना जिनपृष्ठे आरोपणात् संततीनां ऋद्धिनाशः । आकाशे मुनिमूर्तिरोपणं स्वत्तः परं दर्शनपूजाऽत्पत्वाय । रङ्गमण्डपे पुत्तलिकाविन्यास अहंञ्चैत्ये नाहः । सोपानानि हस्वानि । भारपट्टाः लंबाः । कृष्णा गूंहलिका । प्रासादपृष्ठे हस्तिशाला इत्यादि दाषाः । तदा सर्वः 30 सत्यमित्युक्तम् । भवितव्यतामे कोपि न छुटति ।।
इति अर्बुदतीर्थे लूणिगवसतिनिष्पत्तिसम्बन्धः ॥६२३॥
"Aho Shrutgyanam"