________________
10
चतुर्थोऽधिकारः [ 395 ] अथ स्वीयपापभवने बकसम्बन्धः । उपायं चिन्तयेत् प्राशस्तथाऽपायं च चिन्तयेत् ।
पश्यतो वकमूर्खस्य, नकुलेन हता बकाः ॥१॥ कस्मिंश्चिद् वने वृशे बकास्तिष्ठन्ति । तस्य तरोः कोटरे सर्पस्तिष्ठति । स चाहिर्जातमात्रान् बकबालकान भक्षयति स्म । ततो दुःखितो वको जलाशयतीरे गत्वा रोदिति । कुलीरकोऽवगबक ! कथं रुचते ?। बकेन तस्य दुःख[स्वरूपं प्रोक्तं । कुलीरो दध्यौ अयं मम सहजो वैरी विद्यते ततस्तथा वच्मि यथा सत्यानृतं भवति । बका अपि वैरिणः क्षयं यान्ति, अहिरपि च । ततो मधुरं प्राह
नवनीता समां वाणी, कृत्वा चित्तं तु निर्दयम् ।
तथा प्रबोध्यते शत्रुः, सान्वयो नियते यथा ॥२॥ ततः कुलीरोऽवग-अतो मत्स्यमांसखण्डानि लात्वा नकुलवमतः सर्पकोटरं यावत् सुन्न [ यथा नकुलस्तं दुष्टसप विनाशयति ] त्वमपि स्वभक्षणाय गृहाण । ततस्तेन कुलीरोक्तं कृतम् । सतो नकुलो मांसलुन्धः प्रथमं सर्प गृहीत्वा जघान । अतो वैरिणः पुरः स्वगुणं न [प्रकाश्यम् ।
इति स्वीयपापभवने चकसम्बन्धः ॥५९५||
[596 ] अथ मिथच्छले तुलामार सहस्रसम्बन्धः । पद्मपुरे जीर्णधनश्रेष्ठी क्रमाद् दरिद्रो भूत्वा धनमुपार्जयितुं दूरदेशं गियासुरभूत् । यतः
यत्र देशे ऽथवा स्थाने, भोगान् भुक्त्वा स्ववीयतः ।
तस्मिन् विभवहीनो यो, वसेत् स पुरुषाधमः ॥१॥ ततो लोहमयों तुला भारसहस्रघटितां धनदवणिजो गृहे ग्रहणके मुक्त्वा धनं लात्वा च सोऽचालीत् । ततो विदेशाद्धनमुपाज्य यदागतः श्रेष्ठो धनदस्याने प्राह-धन सव्याजं गृहाण, 20 निक्षेपकता तला दीयताम । धनदोऽवग तुला मषकैः खादिता । ततः श्रेष्ठी आक धनदपुत्रं नीत्वा नदीस्नानकरणमिषेण नयां गतः । तत्र वृक्षकोटरे धनदपुत्रं दृढं स्थापयित्वा धनदगृहे स्नानं कृत्वागात् । धनदोऽवग-मम पुत्र क्वास्ति । जीर्णः प्राह--स्नानं कुर्वन् नद्या शेश्ये]नेनापहृतः। धनदोऽवग जीणश्रेष्टिन्निदं कूटं किं जलयते ? । बालकं श्येनः कथमुत्पाट्यते । पुत्रमर्पय न चेत् त्वां राजकुले नेष्यामि । जीर्णः प्राह-यथा मम तुला लोहमयी महती मूषकैः 25 खादिता तथा तव पुत्रोऽपि श्येनेनापहृतः । राजकुले गतौ । तत्रापि न्यायो जातः । द्वयोरने प्रोक्तं धनद त्वमस्मै तुलां वितर । जीर्णस्ततस्तुभ्यं पुत्रं दास्यति । ततो धनदेन तुला दत्ता जीर्णाय । जीर्णेन धनदाय धनदपुत्रो दत्तः ।
तुलां भारसहस्रस्य यत्र खादन्ति मृषकाः । तत्र श्येनो हरेदालं न विस्मयोऽत्र विद्यते ॥२॥
इति मिथच्छले तुलाभारसहस्रसम्बन्धः ॥५९६॥
15
30
"Aho Shrutgyanam