________________
10
३३४ ]
प्रबन्धपावती यथामिषं जले मत्स्यैर्भक्ष्यन्ते श्वापदेवि ।
आकाशे पक्षिमिव तथा सर्वत्र वित्तवान् ॥३॥ ततस्तो किनिद्धनं प्रामाद्वहिासीकृत्य गृहमागतौ । एकदा रहो रात्री पापबुद्धिना तत्र गत्वा धनं गृहीतं । गर्ता पूरयित्वा स्वालये आगात् । अन्येधुः धर्मबुद्धिः प्राह-धनं विना सीदामि । तेन धनमानीयते । पापधीः प्राह-गम्यताम् । ततो द्वावपि धनं लातुं गतौ। धनस्थान धनरिक्तं दृष्ट्वा प्रथममेव पापबुद्धिः शिरस्ताब्यन्नाह त्वयैव धनं गृहोतं धर्मबुद्धे ! नान्येन । यतोऽन्यः कोपि न वेत्ति । धर्मबुद्धिः प्राह-[भो दुरात्मन्, मैवं वद, नैतचौरकर्म करोमि ] त्वया गृहीतं मायां कुर्वाणोऽसि त्वं, अहं तु धम्मधीः कस्यापि तृणमप्यदत्तं न गृहामि । यतः
मातृवत् परदाराणि परद्रव्याणि लोष्टुवा ।
आस्मवत् सर्वभूतानि वीक्षन्ते धर्मबुद्धयः ॥४॥ __ एवं द्वावपि विबदमानौ राजकुले गतौ मिथो दूषणानि प्रोचतुः । अथ धर्माधिकारिभिः प्रोक्तं-दिव्यं क्रियताम् । तदा पापबुद्धिः प्राह-अहो न दृष्टो न्यायः सम्यग् भवद्भिः । उक्तं च
विवादे त्वेष्यते पत्रं, तदभावे च साक्षिणः |
साक्ष्यमावे ततो दिव्यं प्रवदन्ति मनीषिणा ॥५॥ ॥ यदत्रविषये मे वनदेव्येव साक्षिण्यस्ति । सा च सम्यग् वक्ष्यति चौरं । ततस्तैरुकं सस्य. मुक्तं त्वया । उक्तं च
अन्त्यजोऽपि यदा साक्षी, विवादे संग्रजायते ।
न तत्र विद्यते दिव्यं, किं पुनर्यत्र देवता ॥६॥ ततो मानितमधिकारिभिः प्रातवनदेवता प्रक्ष्यते । पापबुद्धिना रात्री छमं पिता स्थापितः 20 समीकोटरे । प्रोक्तं च त्वयैवं प्रोच्यं धर्मबुद्धिर्धनं ललो । द्वितीयदिने धर्मबुद्धिः पापधी अधि
कारिणोऽन्ये बहवो लोकाः वनं गताः । वनदेव्याः पूजां कृत्वा प्रोक्तं-मो वनदेवते ! बेन धनं गृहीतं तत् कथय । ततः शमीकोटरात् शब्दो निस्ससारेति धर्मबुद्धिर्धन ललौ। ततो यदाधिकारिणो जगुस्त्वया धनं गृहीतं । तदा धर्मबुद्धिना शमी वहिना ज्वालितः । समीतरौ स्वलति
अर्धदग्धांग: पापधीपिता स्फुटिताक्षः शमीकोटरानिर्ययो । ततोऽधिकारिभिः प्रोक्त श्रेष्ठिनेतत्वि 26 त्वया वृद्धवे पापं कृतं । श्रेष्ठयाह-पुत्रेण कारितोऽहं । ततो हशितः पापधीः । सर्व धनं ददो धर्मबुद्धिसत्कं । पापबुद्धिसम्बन्धिराझा गृहोतं । पापबुद्धिः स्वदेशानिष्काशितः । उर्फ च
धर्मबुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ भुवि । पुत्रेण मारितः पाप-बुद्धिना धनलोभतः ॥७॥
इति पापे पापबुद्धिसम्बन्धः ॥५९४॥
"Aho Shrutgyanam"