________________
चतुर्थोऽधिकार नेमिकुमारः प्राह-अत्र पुराबहिर्वटसरोरधः श्रीपार्श्वप्रतिमाऽस्ति, सा च कयंते, तस्या विस्तरात् स्नानं क्रियते, तेन स्नात्रजलेन स्व शिबिर सिच्यते, ततो जरोत्तरति । ततः कृष्णेन नेमिषधसि कृते सर्वसैन्यं सज्जीभूतम् । ततः कृष्णेन युद्धं कुर्वता शङ्ख पूरितः । प्रमुश्रीपाश्व दृष्टौ जरासंधशिविरं भग्न, ततो जरासंधो यमगृहं प्रेषितः, ततो जयजयारावो जातः । सर्व भूपाः कृष्णं नेमुः। ततस्तत्र शंखपुरं वासितम् । ततः प्रभोः प्रासादा कारितः। तत्र प्रमुः । स्थापितः । ततः 'शङ्खश्वर' इति प्राम-पार्श्वयोर्नाम्नी जाते ।
इति शंङ्खश्वरपार्थसम्बन्धः ॥५८२॥
[ 583 } अथ कर्मणि घृषमसम्बन्धः । वंगदेशे महापुरे वर्द्धमानो धनी वणिग् दध्यौ-धनं विना नरो न मान्यते । यतःयस्यास्तस्य मित्राणि, यस्यास्तिस्य बान्धवाः ।
10 यस्यार्थाः स पुमान् लोके, यस्यार्थाः स च जीवति ॥१॥ द्विगुणं त्रिगुणं वित्तं भाण्डक्रयविचक्षणाः । प्राप्नुवन्त्युधमालोका दूरदेशान्तरं गताः ॥२॥ सुभीताः परदेशस्य बह्वालस्याः प्रमादतः ।
स्वदेशे निधनं यान्ति, काकाः कापुरुषा मृगाः ॥३॥ एवं ध्यात्वा वर्धमानः शुभवेलायां लक्ष्मीमुपार्जनाय शकट क्रयाणकैर्भूत्वा चचाल । तस्य मार्गे गच्छतः संजीवकनन्दको घृषभौ पीनस्कन्धौ वसतः । श्रेष्ठी मनसा विशिष्टचारिपानीयादि ददाति पालयति च । यमुनायां संजीवकः कर्दममग्नस्कन्धोऽसमर्थचरणो जातः । भग्नचरणं मृतःप्रायं वृषभं झात्वा वर्द्धमानो जगौ परिवारस्य पुरः, अत्र तु बहवः श्वापदाः सन्ति, सार्थस्योपद्रवं करिष्यन्ति, तेनास्य वृषभोपान्ते रक्षायै जनास्त्रयस्तिष्ठन्तु, अपरः सार्थश्वलति यतः-- 30
न स्वल्पस्य कृते भूरि नाशयेन्मतिमानरः ।
एतदेवात्रपाण्डित्यं यत् स्वल्पाद्भरिरक्षणम् ॥४॥ एवं प्रोक्त्वा [च्य] संजीवकस्य रक्षाकृते नरत्रयं संयोज्य चलितो वर्धमानो परं वृषभं शकटे नियोज्य बसन्तपुरे गतः । इतो बह्वापायं वनं दृष्ट्वा ते नराः दिनत्रयं स्थित्वा वसन्तपुरे गत्वा वर्द्धमानश्रेष्टिनः पुरो जगुः-संजीवको मृतो, न श्वसिति, तेन तत्र मुक्तः । श्रुस्वैतत् श्रेष्ठो 25 खेदं कृत्वा पुनः शोक मुमोच । इतो बहसिंहव्याघ्रादिजीवेषु दुष्टेष्वपि सत्सु जी
बलात् यमुनावातैः सज्जीभूतो रोचमानां चारिं । चरन् यथेच्छया वारि पिथन् मत्तोऽभूत् । नंदका वृषो गृहे पोष्यमाणोऽपि यत्नेन रक्ष्यमाणो मृतः। ततोऽन्येयुः श्रेष्ठी पुनरपरौ वृषभौ शकटे नियोज्य ततः पुराबलम् यमुनातटे समागतस् वृषभं संजीवक पोनं दृष्ट्रा प्राह--
15
"Aho Shrutgyanam"