________________
चतुर्थोऽधिकारः
[ ३२३ लपार्धात् सर्वे लोकाः प्रीणिताः, परं गोरंभाह्वो भूमिमुग गेहमार्जनकर्ता मन्त्रिणा गले गृहीत्वा निष्काशितः, स च रुष्टोऽभवत् । ___अन्यदा प्रातर्गेहं मार्जयन् गोरंभो राज्ञि शृण्वति प्राह-दंतिलस्याहो धैष्ण्यं "राझी हस्तेन स्मृति"। राजा श्रुत्वैतत् चकितो रुष्टोऽभवन् मन्त्रिणि । राजा कुदृष्ट्या दंतिलसन्मुखं विलोकयति । ततो मन्त्रिणा ध्यातं-मया तु सर्व लोका मानिता एवं चिन्तयतस्तस्य गोरंभः स्मृतिमागात् । । गोरंभः पृष्टो मन्त्रिणा स्वं जल्पितं जगौ । ततो मन्त्री गोरंभाय बहु लक्ष्मी ददौ । गोरंभोऽवग् त्वया भी नेया, तथाहं करिष्ये यथा राजाऽनुकूलो भविष्यति । ___ततोऽन्यदा गृहं मार्जयन् प्रगेऽहं कूपेऽपतम् । राजा मम लक्ष्मों दास्यति । देवदत्तेन हदता चिर्भट भक्षितम् । अहं विषं भक्षयिष्यामि राजा दंडयिध्यति । दंतिल: परनारीसहोदर इत्यादि जल्पन् राज्ञा श्रुतो गोरंभः । ततो राक्षा पृष्टंभो गोरंभ ? एवं असंबद्धं किं जल्पसि ? 10 गोरंभोऽवग-मम वातूलं देहं विद्यते, तत एवं मया सदा जलप्यते कूटं । ततो राजा हृष्ठो दंतिलस्योपरि जातः । स्वचिन्तितं मारणसम्बन्धं च प्राह ।
यो न पूजयते गवोदुत्तमाधममध्यमान् ।
भूपासन्नान् स मान्योपि भ्रश्यते दंतिलो यथा ॥१॥ नरपतिहितकर्ता द्वेष्यतां याति लोके, जनपदहितकर्ता त्यज्यते पार्थिवेन्द्रः । 15 इति महति विवादे वर्तमाने समाने, नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥२॥
इत्युत्तममध्यमजघन्यमान्यमानने दंतिलसम्बन्धः ॥५७८॥
[579 ] अथ बुद्धौ खञ्ज-छागी सम्बन्धः । एकस्मिन् वने अजा यूथं चरितुं याति । एकः सिंहो गुहातः निर्गत्य मारं मारमजामेका भक्षयति । यदा सिंहो धावति, छाग्यो नश्यन्त्य पराः । एकदैकां छागी खजां वीक्ष्य यदा पञ्चास्यो १० दधाव तदा सा छागी सन्मुखं चलिता । सिंहो दथ्यौ--अग्रे मम दृष्टौ सर्वाश्छाग्यः नश्यन्ति, एषा तु सन्मुखमायाति एवं ध्यायन सिंहो जगौ-कासि त्वं ?। छागी दध्यौ-एष मत्तो विभ्यनेवं जल्पनसि । तत उच्चैः स्वरं प्राह-मां किं नोपलझयसि ? । अहं त्वया अतापि न ।
सप्तसिंहा मया जग्धा, दश व्याघ्रास्त्रयो गजाः ।
एक सिहं वने नष्टं हन्तुमत्रागतास्म्यहम् ॥१॥ श्रत्वेति सिंहो नष्टः । इति बुद्धौ खञ्जछागी सम्बन्धः ॥५७९॥
[680 ] अथ कर्मणि कृष्णबलिपुत्रसम्बन्धः । एकदा सहस्रार्जुनभूपो हरमारराध । तुष्टो हरोऽवगु-मार्गय । राजावग्-मम वर्या पली वितर । हरव वर्य कंकणं वितीर्याह-यस्य हस्ते इदं कंकणं क्षेप्यसि सा ते वर्वा सो भविष्यति ।
"Aho Shrutgyanam"