________________
चतुर्थोऽधिकारः
[ ३२१ अनादरो' विलम्बश्च,२ वैमुख्यं विप्रियं वचः ।
पश्चात्तापश्च' दातुः स्यात, दानदूषणपञ्चकम् ॥१॥ भीमोऽवग-कथं दास्यामि ।
आनन्दाणि' रोमाञ्च,२ बहुमान प्रियं वचः ।
तथानुमोदना५ पात्रे, दानभूषणपञ्चकम् ॥२॥ पअपुरे चन्द्रयक्षान्तिके गत्वा दानफलं पृच्छ । ततो भीमस्तत्र गतः विनयपूर्व दानफलं तस्य पार्श्वेऽप्राक्षीत् । यक्षोऽवग-महानन्दपुरे अहं पूर्वभवे ककशवचो जल्पन् दानमदा तेनात्र भवे मम मुखं शूकराकारं जातम् । देहं तु काञ्चनतुल्यम् । यतः--
स्वर्णदानं रत्नदानं मुखेनैव सुभाषितम् । तेनेयं काञ्चनीकाया, तेनेदं शौकरं मुखम् ॥३॥
10 ततो मीमः स्वपुरेऽभ्येत्य पञ्चदूषणवर्ज पञ्चभूषणयुक्तं दानं ददौ । ततो राजाऽवगभ्रातरेवं दानं दत्तं सफलं भवति । इति दानभूषणपश्चकादिभीमसम्बन्धः ॥५७४॥
[575 | अथ सद्यस्कधीविषये वैष्णवीतापसीसम्बन्धः । एकस्मिन् प्रामे एका मठवासिका नारायणप्रासादे तिष्ठन्ती वर्षाकाले रात्रौ छन्नं चूरिमं भक्षयन्ती लोकाने जल्पति-अहं मासक्षपणं कुर्वाणाऽस्मि । ततो लोका विशेषाद् वस्त्रदानात् 16 भक्ति कुर्वन्ति । वर्षाकालात्यये उज्जागरिते हरौ विशेषतो धनं ददन्ते ।
एकदा निशि चूरिमं भक्षयन्तीं दृष्ट्वा नारायणस्तापसी प्रति प्राह-रे रण्डे ! रात्रौ चू (चौ) रिमं भक्षयसि, दिवा वक्षि लोकाने अहं मासक्षपणं करोमि । ततः सा उत्पन्नमतिः प्राह कृष्णं प्रति त्वमपि मम तुल्योऽसि । लोकाने बक्षिः वं अहं वर्षाचतुर्मास्यां स्वपिमि रात्रौ तु लोकचरितानि विलोकयसि । अतोऽहं यारशी तादृशस्त्वम् । ततः कृष्णो मौनं चक्रे । इयं मां 20 विगोपयिष्यति । इति सद्यस्कधीविषये वैष्णवीतापसीसम्बन्धः ॥५७५॥
[576 ] अथ स्पर्द्धयां काक-हंससम्बन्धः । हंसेन समं काकः स्पर्द्धा दधान उठ्यति व्योम्नि । ततो द्वावपि समुद्रतटे गतौ । हंसो मावद् वाीिमध्यस्थद्वीपे यियासुरभूत् तदा काकोपि चिचलिषुरजनि । हंसेनोक्तं-त्वं तिष्ठ । त्वया नोत्तीर्यते । काकोऽवग-त्वं यथा व्योम्नि गच्छसि तथाई न गच्छामि। ततो यदा हंस. 25 श्वचालान्धौ तदा काकोपि च कियति वारिधौ पश्चान्मुक्ते काकः खिन्नोऽधोमुख ऊध्र्वपादो जातः। तदा हंसेनोक्तम्
"ज जाणीइ रे ते कीजइ कागा, तलि मूडी नइउं पागा ।"
"Aho Shrutgyanam'