________________
३२० ]
प्रबन्धवती
५०० महाधरा, ४०० चतरासीया, ३६ राजकुली, (९) मवनिधान, १४ रत्न - सुवर्ण- रुप्याधिक आगरा ( बाकर ) इत्यादि । इति चक्रवर्तिऋद्धिसम्बन्धः ||५७१ ||
[572] अथ भोजोक्तसमस्या धनपालपूरित सम्बन्धः ।
एकदा स्त्रीपदयो पुरं शब्दयन्तं तस्याश्च हृदि हारं दृष्ट्वा राजा भोज: बनपाल पण्डित - पार्श्वे समस्यां पप्रच्छ " शंख पथवास ।"
ततो धनपालास्ता पूरयामासेति -
एक मंदिर ऊपन एकइ सुन्दरि वास । हार पयोधरसिउं रमइ, उ झंखर पयवास ||
यतः हार-नूपुरे स्वर्णकृता स्वाऽऽपणे घटिते । हारस्तु तथा हृदि न्यस्तः, नूपुरं तु रजो10 गुण्ठितपादे । अतो नूपुरं स्वस्य नीचं स्थानं वीक्ष्य रुदतीति संस्खति ।
इति भोजोक्तसमस्या घनपालपूरितसम्बन्धः ||५७२ ||
[578 ] अथ " चैत्रयाडि" पुरुषसम्बन्धः ।
एकस्मिन् पुरे एकस्य कौटुम्बिकस्य पुत्रस्य यथा तथा वदतो, यथा तथा कुर्वतो यथा तथा feveतो, यथा तथा वीक्ष्य [क्ष ] माणस्य "चैत्रयडि” नाम लोकैर्दसम् । स च दूनः सन् यदा 15 सन्मुखं वक्ति तदा लोका जगुः -त्वं यत्र गच्छसि तत्र “चैत्रयहि" भविष्यसि । स्रोऽवग्साहं यास्यामि यत्र मां 'चैत्रयदि' कोपि न वदति । अत्र तु मामेवं ख्यातिरभूत् । ततो निर्गतः म निदाघे तृषाकान्तः कस्यचिद् प्रामोपान्ते कूपे । जलमागृह्णानां स्त्रीणामन्तराले प्रविश्य इतस्ततो विलोकयन चुलुकेन जलं पिबन् स्त्रीभिः प्रोचे अयं चैत्रयडि: कुत्रागत: ? । स्रोऽवग्- मां मातरेवं कथं जल्पथ ? । ताः प्रोचुः तव लक्षणैः । ततः स दध्यौ योजनानां शतमागां अत्रापि मम 20 ज्ञायते । ततः स स्वपुरेऽभ्येत्य "चेन्त्रयडिं" वदत्सु लोकेषु न चुक्रोध |
इति चैत्र
पुरुषसम्बन्धः ||५७३ ||
[674 ] अथ दानभूषणपश्चकादिभीमसम्बन्धः ।
एकदा युधिष्ठिरो भोमस्याग्रे प्राह तथा क्रियते यथा श्रीः स्थिरा भवति । ततो भीमो महतीं शिलामुत्पाट्याधः स्थापयामास । युधिष्ठिरोऽवग् भ्रातः ! अधक्षिप्ताध एव याति । तत आवास25 स्योपरि स्थापयामास । तत्रापि भूपोऽवग्-अग्न्यादि भयमत्र । भीमोऽवग् भ्रातः कुत्र न्यासीकरोमि ? | युधिष्ठिरोऽवग् - दानं ददस्व । ततः सम्रागारं मण्डयित्वा यथा तथा जल्पन्, काले कदाचित् विकाले श्रियमर्थिभ्यो दत्ते । राजावग - भीम ! एवं श्रीः स्थिरा न भवति परं क्रूरजल्पनादिभिर्दानदूषणमेव भवति । भीमोऽवग् कथमेवं प्रोच्यते । राजा शाह
१ मूर्खजनस्य संज्ञाविशेषः प्रतीयते ।
"Aho Shrutgyanam"